SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ अनुमानगादार्या सामान्यनिरुक्तिप्रकरणम् * दीधितिः अवच्छेदकत्वं चेहाऽनतिरिक्तवृत्तित्वम् । * गादाधरी * सम्भवः, वह्नयभावत्वादिना घटाद्यवगाहिनो वहयभाववान् हद इतिज्ञानस्यापि प्रतिबन्धकतया तत्साधारण्यानुरोधेन वह्नित्वावच्छिन्नप्रकारतानिरूपिताभावत्वावच्छिन्न प्रकारतानिरूपितहदत्वावच्छिन्न विशेष्यताकनिश्चयत्वेनैव प्रतिबन्धकताया वाच्यतया यास्तादृशप्रकारतानिरूपितहदत्वावच्छिन्नविषयतात्वेनाऽवच्छेदकत्वेऽपि अ ९६ वह्नयभावविशिष्टहृदत्वावच्छिन्नविषयता प्रामाण्यज्ञानाभावादिविशिष्टहृदत्वावच्छिन्नविषयताक निश्चयत्वस्याऽवच्छेदकता पर्याप्तयनधिकरणत्वादतस्तृतीयाया अनतिरिक्तवृत्तित्त्ररूपावच्छेदकत्वं स्फुटयति अवच्छेदकत्वं चेति । इह =लक्षणे । घटकत्वं सप्तम्यर्थः । * चन्द्रकला ** सम्भव इति । निरुक्तरीत्या पर्याप्यधिकरणत्वविवक्षणे पुनरसम्भवः स्यादित्यथः । सम्भवे हेतुमाह वह्नयभावत्वादिनेत्यादि । तत्साधारण्यानुरोधेन = भ्रमसाधारण्यानुरोधेन । वह्नित्वेति । प्रतियोगित्वसम्बन्धावच्छिन्न वह्नित्वावच्छिन्न प्रकारतानिरूपिताभावत्वावच्छिन्न विशेष्यत्वावच्छिन्नस्वरूप सम्बन्धावच्छिन्न प्रकारतानिरूपितहृदत्वावच्छिन्नविशेष्यताकनिश्चयत्वेनेत्यर्थः । तादृशेति ताहरावह्निप्रकारतानिरूपिताभावत्वावच्छिन्नार्थकम् । विषयतात्वेनैवेत्यत्रैवकारेण वहयभावविशिष्टहदविषयतात्वेन प्रतिबन्धकतावच्छेदकत्वव्यवच्छेदः । अवच्छेदकतापर्याप्त्यनधिकरणत्वादिति ताराविशिष्टविषयतात्वेन प्रतिबन्धकतावच्छेदकताया वक्तुमशक्यत्वात् यद्रूपपदेन लक्ष्यतावच्छेदकीभूतवह्नय भावविशिष्टहृदत्वस्योपादानाऽसम्भवादुक्तरीत्या पर्याप्तत्यधिकरणत्वविवक्षया भवत्यसम्भव इति भावः । स्फुटयतीति । तथाच यद्रूपावच्छिन्नविषयकत्वम् प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्ति तद्रूपवत्त्वमिति फलितम् । ननु तथापि हृदो वह्निमान् धूमादित्यादौ बाघादावसम्भववारणं दुःशक्यम् वह्रथभावादिविशिष्टहृदादिविषयकत्वस्य हृदो वह्निमान्नवेत्याकारकसंशये हृदो वहून्यभाववानित्याकारकज्ञानमप्रमेत्य प्रामाण्यज्ञानास्कन्दितज्ञाने वह्निमान् हृदो वन्यभाव * कलाविलासः * अप्रामाण्यज्ञानाभावादीति । ननु प्रतिबन्धकतावच्छेदकता पर्याप्तयधिकरणस्वविवक्षणे कथमसम्भवः ? द्रव्यान्यः पर्वतो वह्निमान् धूमादित्यादौ द्रव्यत्ववत्पर्वत " Aho Shrutgyanam"
SR No.009530
Book TitleSamanyanirukti Chandrakala kalavilas Tika
Original Sutra AuthorN/A
AuthorVamacharan Bhattacharya
PublisherSadhubela Ashram Bhadaini
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy