SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम् * गादाधरी अनुमितिविरोधित्वम् तेन सम्बन्धेन तद्वत्त्वस्य दुष्टताव्यवहारनियामकत्वो * चन्द्रकला तत्सम्बन्धा अनुमितीति । प्रकृतेत्यादिः । तेनेत्यादि / वच्छिन्नतन्निष्ठाधेयतानिरूपिताधिकरणतावत्त्वस्येत्यर्थः । दुष्टतेति । अयं हेतुर्दुष्ट इत्याकारकव्यवहारनियामकत्वस्वीकारे इत्यर्थः । स्वज्ञानविषयप्रकृतहेतुतावच्छेदकवत्त्वसम्बन्धेन दोषसम्बन्धित्वस्यैव स्वमते दुष्टताव्यवहारनियामकत्वादुपगमे इत्युक्तमिति * कलाविलासः ९२ वतिव्याप्रेरयोगात् तादृशसम्बन्धाप्रसिद्धः । नचैवं विवक्षणं कथं तादृशान्यतरत्वतावतिव्याप्तिरिति वाच्यम्, व्याप्तिज्ञानं प्रति साध्याभावधर्मिकस्वरूपसम्बन्धावच्छिन्नाऽधेयतासम्बधेन हेतुमत्प्रकारकज्ञानस्य प्रतिबन्धकतया तादृशभ्रममादायैव तादृशान्यतरत्व हे तावतिव्याप्तिसम्भवादिति भावः । श्रथात्र कल्पे धूमत्ववान् पर्वतो वह्निमान् धूमादित्यादौ धूमस्य दुष्टत्वानुपपत्तिः स्वरूपसम्बन्धेन धूमत्वाभावप्रकारकज्ञानस्य प्रतिबन्धकतया तेन सम्बन्धेन धूमत्वाभावस्य धूमे विरहात् । एवं रूपत्ववत्पर्वतो वह्निमान् तद्रूपात् इत्यादावपि हेतौ दुष्टत्वव्यवहारो न स्यात् रूपत्वाभावादेस्तद्रूपेऽसत्त्वात् इति चेन्न, सर्वत्रैव तदभायः पर्वते इतिज्ञानमादाय हेतुतावच्छेदकसम्बन्धावचिछन्नाधेयतासम्बन्धावचिछ - पर्वतप्रकारकव्याप्यविशेष्यकज्ञानस्यापि प्रकृतानुमितिप्रतिबन्धकतया तेन सम्ब न्धेन तद्वत्वस्य हेतौ सत्वादिति ध्येयम् । वव्याप्यः‍ वस्तुतस्तु धूमत्वाभावत्वादिना घटाभावभ्रमस्यापि स्वरूपसम्बन्धावच्छिन्नघटाभावनिष्ठाकारताकत्वेन अनुमितिप्रतिबन्धकतया स्वरूपसम्बन्धेन घटाभावत्वस्य धूमादितौ सच्चात् धूमत्ववत्पर्वतो वह्निमान् धूमादित्यादी धूमादिहेतावव्याप्तिर्न सम्मवति, एवमन्यत्रापि दुष्टत्वमनयैव रोत्योपपादनीयमिति तु युक्तमुत्पश्यामः । नन्त्रत्र दोषलक्षणं कीदृशं यदि यत्प्रकारकत्वेनानुमितिप्रतिबन्धकत्वं मत्वं तदा वह्नयभाववद्धदस्य दोषत्वं न स्यात् तादृशहृदप्रकारकत्वेनानुमितिप्रतिबन्धकत्वविरहात् । यदिच दोषाऽघटितमेव यत्सम्बन्धावच्छिन्नयत् प्रकारताकत्वेनानुमितिप्रतिबन्धकत्वमित्यादि दुष्टलक्षण मुच्यते तदादोषवत्त्वं दुष्टत्वभिति नियमानुपपत्तिरिति चेन्न श्रन्तराभासमानविषयतयोर्भेदानभ्युपगमे वह्नयभाववद्धदवान्धूम इत्याकारकज्ञानीयस्वज्ञान विषयप कृतहेतुतावच्छेदकवत्वसम्बन्धावचिछप्रकारताया अपि विशेष्यत्वाऽभिन्नतया श्रनुमितिप्रतिबन्धकतावच्छेदकत्वात् यत्प्रकारताकत्वेन प्रतिबन्धकत्वं तवं दोषत्वमित्यस्यैव वक्तव्यत्वादितिध्येयम् । "Aho Shrutgyanam"
SR No.009530
Book TitleSamanyanirukti Chandrakala kalavilas Tika
Original Sutra AuthorN/A
AuthorVamacharan Bhattacharya
PublisherSadhubela Ashram Bhadaini
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy