SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ऽङ्कः ] मोहराजपराजयम् । ( राजा परिक्रामति । ) प्रतीहारः --- इदं सुखासनमलङ्करोतु देवः । ( राजा सुखासनमारुह्य गमनं नाटयति । ) प्रतीहारः पुरः पताकापङ्किस्तवकितव्योमोदरं कुबेरमन्दिरं पश्यतु देवः । राजा - ( विलोक्य) अये ! कणत्किङ्किणीजालवाचालदिक्कऋवाला ध्वजावलिरसौ प्रकटयति कोटीश्वरतां कुबेरस्य । किश्च अमी यथा मारुतघातघूर्णिता ध्वजाञ्चलाः सौधशिरस्सु चञ्चलाः । तथा पदार्थाः सकलाः स्फुटं विद न्निदं न निर्वेदमुपैति कः किल ? ॥ २० ॥ प्रतीहारः क एवं देवादपरो जानाति ? | ५३ राजा - (किश्चित्परिक्रम्याङ्गुल्या निर्दिशन् ) हन्त ! क एष कुबेरमन्दिरद्वारगोपुरं दक्षिणेन भूयान् जनसमवायः ? । ( प्रविश्य ) महत्तरवणिजः — देव ! महाजनोऽयम् । राजा - किमेवमिह महाजनस्तिष्ठतीति ज्ञातुमिच्छामि । वणिजः — देव ! असौ हि कुबेरस्वामिसद्मप्रवेशावसरं प्रतिपालयति । राजा - ( सविमर्श) क इवेदानीमत्र प्रवेशप्रत्यूहहेतुः स्यात् ? । वणिजः -- राजपुरुषपरिगृहीतसर्वस्वे निष्पुत्रप्रमीतधामनि प्रवेष्टव्यम् । अन्यथा हि राज्यग्राह्यता । राजा - (आत्मगतं ) कर्तु तत्क्षणमौर्ध्वदेहिकमहो ! पापं भयाद्भूभुजां निष्पुत्रस्य मृतस्य बान्धवजनः स्निग्धोऽपि नासीदति । क्रन्दन् किञ्च कर्थ्यते गृहजनोऽन्विष्यद्भिरन्तर्धनं free aafattव नृपव्यापारिभिर्निष्कृपैः ॥ २१ ॥ "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy