SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ मन्त्रियशः पालविरचितं [ तृतीयो वणिजः - देव ! कुबेरस्वामी निष्पुत्र इति तल्लक्ष्मीर्नरेन्द्रगृहानुपतिछते । तदादिश्यतामध्यक्षः कोऽपि येन तत्परिगृहीते गृहसर्वस्वे करोति महाजनस्ते दौर्ध्वदेहिकानि । राजा - (स्वगतं ) ५२ आशाबन्धादहह ! सुचिरं संचितं क्लेशलक्षैः केयं नीतिर्नृपतिहतका यन्मृतस्वं हरन्ति ? | क्रन्दन्नारीजघनवसनाक्षेपपापोत्कटाना माः किं तेषां हृदि यदि कृपा नास्ति तत्किं त्रपापि ? ॥ १९ ॥ मया त्ववश्यं मृतस्वं मोक्तव्यमेव । ( प्रकाशं ) भद्राः ! स्वयमागत्य तावद्रक्ष्यामस्तस्य गृहं गृहसारं च । तद्यात यूयं वयमप्यनुपदमेवायाता इति । वणिजः — परमनुगृहीताः स्मः । ( इति प्रणम्य निष्क्रान्ताः । ) विदूषकः -- (१) भो ! तं य्येव उवत्थिदं ति । राजा- - वयस्य ! साधयामस्तावन्मृतस्वमोक्षाय । त्वमप्यमुं प्रबन्धं पुण्यकेतोर्विदितं कुरु । विदूषकः - (२) एवं भोदु । राजा- - कस्कोऽत्र भोः ! ( प्रविश्य ) प्रतीहारः- किमाज्ञापयति देवः ? । राजा -- प्रतीहार ! प्रगुणय सुखासनं कुबेर सदनगमनाय | प्रतीहारः- यदादिशति देवः । ( इति निष्क्रम्य प्रविश्य च । ) देव 1 सर्व सुविहितमेव । राजा - तदादेशय पन्थानम् । प्रतीहारः -- इत इतो देवः । ( १ ) भोः ! तदेवोपस्थितमिति । (२) एवं भवतु । B & C तदूर्ध्व "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy