SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ मन्त्रियशःपालविरचितं [ तृतीयोरौद्रता-(१) अज्ज ! भगवदीपूओवगरणाई आणेदुमाणत्तम्हि भटिणीए। विदूषकः-(२) रुद्ददे संपाडेसु देवीसासणं । अहं पि इमिणा वुत्तंतेण निव्ववेमि पियवस्सं। (इति निष्क्रान्तौ।) प्रवेशकः। (ततः प्रविशति विरहावस्था नाटयन्नासनस्थो राजा ।) राजा-( कृपासुन्दरीमनुसंधाय सबहुमानं ) भद्रं तस्य तपोवनस्य सुतनुः प्राग्यत्र दृष्टा मया ___ यस्मिंश्चानुसृता प्रिया ननु तदुद्यानं चिरं नन्दतु। तस्मै स्वस्ति महीरुहाय सुदती यत्रालपन्ती श्रुता । बाला यत्र बलात्करेण विधृता तस्यै नमो भूमये ॥७॥ किञ्च सा वाचि सा च हृदि सा पथि सा च धाम्नि सा व्योम्नि सा पयसि सा भुवि सा च दिक्षु । स्वमेऽपि सा शशिमुखी परिवर्तते मे . किं वापरैरजनि तन्मयमेव विश्वम् ॥ ८॥ ( विमृश्य च) अहो ! नु कथमद्य रहस्यकार्यसचिवः सोऽपि नालोक्यते कुतोऽपि ललितस्वभावः । (ततः प्रविशति विदूषकः । ) विदूषकः-(राजानमवलोक्य ) (३) एसो पियवयस्सो किवासुंदरीविरहसंधुछिदं देवीअपसादसंबंधसंवड्डिदं हिदयसंतावमुव्वहंतो पुरो जेव । ता उवसप्पिय इमिणा अमच्चपवंचेण निव्ववेमि । (इत्युपसर्पति 1) राजा-( दृष्ट्वा सहर्षे) कथं प्राप्त एव वयस्यः। (१) आर्य ! भगवतीपूजोपकरणान्यानेतुमाज्ञप्तास्मि भट्टिन्या । (२) रौद्रते ! संपादय देवीशासनम् । अहमप्यनेन वृत्तान्तेन निर्वपामि प्रियवयस्यम् ।। (३) एष प्रियवयस्यः कृपासुन्दरीविरहसंधुक्षितं देव्यप्रसादसंबन्धसंवर्धितं हृदयसंतापमुद्वहन् पुर एव । तत उपसानेनामात्यप्रपञ्चेन निर्वपामि । "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy