SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ मन्त्रियशःपालविरचितं [द्वितीयो. यत्कीर्तिजन्मेव सुधामरीचि जगत्तमो हन्ति महोविलासैः ॥४१॥ सोमता-(१) विहङ्गमसत्तम ! अदोवरं किं करिस्सदि महाराया ? । शुकः सर्वकषं कल्मषवर्मदुर्जयं व्यामोहराजं विनिहत्य सङ्गरे । कृपाविलासैरभृतोर्मिसोदरै रानन्दितः स्थास्यति काननेऽत्र सः ॥ ४२ ॥ सोमता-(२) रायवल्लह ! सा पुरिसविदेसिणी सुणीयदि। कहं नरनाहस्स पणयिणी भविस्सदि ? । अवि य, तीसे वदृदि दुप्पूरो महापणबन्धो। शुकः-कीदृशः ?। सोमता-(३) सुणसु । तथा च इह भरहनिवाओ जं न केणावि चत्तं मुयइ मयधणं जो तं पि पाविकमूलं । नियजणवयसीमं मोयए जो य जूय प्पमुहवसणचकं सो वरो मज्झ होउ ॥ ४३ ॥ शुकः-प्रथममेव कक्षीकृतोऽयमर्थः पार्थिवेन । सोमता-(४) एदं नाहं सहहामि । (१) विहङ्गमसत्तम! अतःपरं किं करिष्यति महाराजः । (२) राजवल्लभ ! सा पुरुषविद्वेषिणी श्रूयते । कथं नरनाथस्य प्रणयिनी भविष्यति । अपि च, तस्या वर्तते दुष्पूरो महान् पणबन्धः। (३) शृणु, इह भरतनृपाद्यन्न केनापि त्यक्तं मुञ्चति मृतधनं यस्तदपि पापैकमूलम् । निजजनपदसीमां मोचयेद्यश्च चूत. प्रमुखव्यसनचक्रं स वरो मम भवतु ॥ (४) एतन्नाहं श्रद्दधामि । १ B&C'तथा च' "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy