SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ मन्त्रियशपालविरचितं [द्वितीयो सखी--(१) देववल्लहे ! कहं पायवपल्लवेसु एरिसो धम्मोसमुल्लसदि ?। निजियकन्दप्पतेयस्स पुरिसरयणस्स अमयरसवरसिणा करकमलेण भोदव्वं । (कृपासुन्दरी श्रुत्वा सलज्जं सरभसं हस्तमाकृष्य पराङ्मुखी तिष्ठति।) राजा-(सविषादं) कथमपि तव कर ! जातः पुण्यश्रीपाणिपल्लवः प्रणयी। तत्किं भूयो भविता ? सिद्धानं नाङ्करं सूते ॥ ३७॥ (पुनः स्वकरं विलोक्य) तत्करपीडनजातस्वेदाम्भाकणमिषेण हस्तो मे। संप्रति तस्य वियोगे रोदिति नूनं विधे ! पश्य ॥ ३८ ॥ सोमता-(२) पियसहि ! गुरुसासणविराहणे महन्तो पञ्चवाओं। ता कुणह सेचणयं । (कृपासुन्दरी साशङ्क संमुखीभूय तरं प्रति ध्यानकलशेन सेचनकं विधत्ते ।) विदषक:-(वीक्ष्य सानन्दं ) (३) पियवयस्स ! तुह पुन्नाणुभावेण अभादो अदिकता चन्दलेहा, विववियं तमपडलं । ( इति नृत्यति ।) राजा--(निरूप्य सहर्षे) धिग्मूर्ख ! मा मैवं कुरु । यतः, त्वदुत्तालतुमुलेन त्रस्यति बालहरिणी । विदूषकः-(४) जइ एवं ता निजंतेमि एवं अणेण बंभसुत्तेण । (इति यज्ञोपवीतं कण्ठादुत्तारयति ।) राजा-अहो ! असमयज्ञोऽयं विप्रः । यतः यदि भवति पाबन्धः प्रेमगुणेनैव नान्यथा युवतेः। पुण्येन विना बत! नहि पारदबन्धो भवत्यपरैः॥ ३९॥ (पुनर्विमृश्य) (१) देववल्लभे! कथं पादपपल्लवेष्वीदृशो धर्मः समुल्लसति । निर्जितकन्दर्पतेजसः पुरुषरत्नस्यामृतरसवर्षिणा करकमलेन भवितव्यम् । (२) प्रियसखि ! गुरुशासनविराधने महान् प्रत्यवायः । ततः कुरु सेचनकम् । (३) प्रियवयस्य ! तव पुण्यानुभावेनाभ्रतोऽतिक्रान्ता चन्द्रलेखा । विद्रावितं तमःपटलम् । (४) अद्येवं ततो नियन्त्रयाम्येतामनेन ब्रह्मसूत्रेण । १ सोमतेत्यर्थः। "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy