SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ मोहराजपराजयम् । १५ I राजा - साधु वयस्य ! साधु । साप्यत्र सावधानैर्विलोकनीया । ( इति सानन्दं परिक्रामति 1 ) विदूषकः- - ( १ ) वयस्स ! पिच्छ पिच्छ एस सो पायवो । राजा - ( विलोक्य) अहो ! सकलवृक्षजातिविलक्षणोऽयं पादपः । यतो दृष्टमात्रोऽपि मयि वर्षति सुधाधाराधोरणीः । (पुनः सम्यग्निरीक्ष्य 1 ) अहह ! छाया सौन्दर्यमस्य । तथा च ऽङ्कः ] अस्यच्छायाधिक्यात्संपन्नं खलु कलङ्कमपनेतुम् । आरब्धं दानमहो ! कर्त्तुं किल कल्पवृक्षेण ॥ २४ ॥ ( नेपथ्ये ) त्रिभुवनहितेऽखण्डितसुखसन्दोहदायिनि पादपः । यतः— सकलपादपेभ्यो विलक्षणोऽयं जलधरजलं न वाञ्छति संकोचं भजति सिन्धुपाथोभिः । अमृतेनापि न विकसति रसेन रूढोऽपरेणायम् || २५ || राजा - ( श्रुत्वा संविस्मयं ) अहो ! चित्रं चित्रम् । सन्ति तादृशा अपि प्रदेशाः । यत्र जलादृतेऽपि प्ररोहन्ति तरवः । भवतु तावत्कोऽपि कस्मैचिदुपदिशति । तत्केनामुना भवितव्यम् । विदूषकः - ( २ ) कहं छहिं रसेहिं नवहिं नहरसेहिं वा परूढो एस तरू १ । ( पुनर्नेपथ्ये ) सोमते ! दक्षासि अस्य वृक्षस्य सेचनके । सोमता - ( सविनयं ) (३) भयवं जाणेदि । पुणो वि आणवेदु तत्तभवं । ( नेपथ्ये ) उन्मुद्रित सरस्वती भाण्डागारस्य ज्ञानसमुद्रस्य श्रीहेमचन्द्रस्य गुरोरादेशसुधासारं मन्मुखप्रणालद्वारेण धारय मनःकुण्डे । यदस्य तरोर्निजसखीसकाशात्सेचनकं कारयेः । ( १ ) वयस्य ! पश्य पश्प एष स पादपः । ( २ ) कथं षड्डिः रसैर्नवभिर्नाट्यरसैर्वा प्ररूढ एष तरुः ? । ( ३ ) भगवान् जानाति । पुनरपि आज्ञापयतु तत्रभवान् । १ B & C वृक्षः २ B & C सस्मयं. "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy