SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ २४ मन्त्रियशःपालविरचितं [द्वितीयोएसो धम्मारामो अत्यत्थि महहुमो दमो नाम । मुत्तावलीहिं फलिओ विडम्बए तियसतरुलच्छि ॥१८॥ राजा-(विलोक्य स्वगतं 1) अत्र हि सौभाग्यभाग्यपाच्या दूरस्थे दृष्टिविभ्रमे तस्याः। संवृद्धो मम हृदये यास्यति शान्ति स सन्तापः ॥ १९॥ (धर्मारामपरिसरमुपसृत्य निरूप्य च।) इह हि विरतिसरसीसमुत्थं विमलं संतोषशतदलं वीक्ष्य। तस्याः स्मरामि सततं विभ्रमविस्फारितं चक्षुः ॥२०॥ (पुनर्विलोक्य ) वयस्य ! कासौ शाखी?। विदूषकः-(१) एस पुरो जेव । राजा-(विलोक्य सहर्ष ) घटितमिवात्मानमिमं मन्येऽहं पुण्यसारसन्दोहैः । यत्तत्परिमलवाही मामनुगृह्णाति पवनोऽयम् ॥ २१ ॥ (पुनरावाय) परिमलमेनं मन्ये तस्या निस्सीमपुण्यमालायाः। अयमन्यथा कथं मे प्राणानां जायतां प्राणः ॥ २२ ॥ विदूषकः-(२) एवमेदं । राजा-(दक्षिणाक्षिस्पन्दनमभिनीय) . कुरु हृदय ! मुदं यस्मात्फलितः पुण्यमस्तवेदानीम् । इति कथयति मम दक्षिणचक्षुःस्फुरणं शुभोदकम् ॥ २३ ॥ विदूषकः-(३) अणेण सुहनिमित्तेण तुह मणोवल्लहा किवासुन्दरी वि इत्थ पएसे संभाविजइ। एष धर्मारामो यत्रास्ति महाद्रुमो दमो नाम । मुक्तावलीभिः फलितो विडम्बयेत् त्रिदशतरुलक्ष्मीम् ।। (१) एष पुर एव । (२) एवमेतत् । (३) अनेन शुभनिमित्तेन तव मनोवल्लभा कृपासुन्दर्यप्यत्र प्रदेशे संभाव्यते। १B&Cएवं ने. "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy