SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ऽङ्कः ] मोहराजपराजयम । द्वितीयोऽङ्कः । ( ततः प्रविशति पुण्यकेतुः 1 ) पुण्यकेतुः -- (स्वगतं ) अविज्ञातसुखास्वादाः पारवश्यविसंस्थूलाः । चिन्ताक्लिष्टतया कष्टं जीवन्ति हृतमन्त्रिणः ॥ १ ॥ भवतु तावत् । मया हि स्वामिनः सकलाधिकारचिन्तास्ववहितेन सर्व सुविहितमेव । तथा च उत्खातान्यरिमण्डलानि सुहृदः संवर्धिता: प्रोद्धृताः प्रोद्वृत्ता अपि कण्टकाः प्रकृतयो न्याध्ये नियुक्ताः पथि । अध्यक्षाः प्रतिमण्डलं नियमिताः सौस्थ्यं च नीताः प्रजा निर्व्याजं बलदुर्ग कोशनिचयाः पुष्टि परां प्रापिताः ॥ २ ॥ अथवा जगजिगीषाजागरूकमहिनि मोहराजे स्वामिनः प्रतिपन्थिनि किमिव सुविहितम् ? | ( पुनः सावष्टम्भं ) तत्रापि सर्वं सुघटितमेव । यतः, ग्राहितो निपुणज्ञानदर्पणप्रणिधिमुखेन रिपोरितिवृत्तं देवः । प्रापितश्च तदुपरि परं संरम्भम् | अभ्यमित्रीणे च चौलुक्यचक्रवर्त्तिनि क इव स मोहहतक: ? । किश्च; संप्रति परिगृहीतेन गुरूपदेशनाम्ना आप्तनैमित्तिकेन निवेदितमेतत् । यथाविवेकराजतनयां परिणीय कृपां नृपः । भूर्भुवः स्वस्त्रीशत्रुं मोहराजं विजेष्यते ॥ ३॥ १९ इति । तन्नूनं कृपासुन्दरीसङ्गमसव्यपेक्षो विपक्षप्रतिक्षेपः । विवेकसंपर्कनिमित्ता कृपासुन्दरीप्राप्तिः । अपरत्रालब्धपदः संप्रति गूर्जरमण्डलमलंकुरुते विवेकनृपतिरिति च श्रुतिः । तदानयनाय व्यापारितो व्यवसायसागरः । स च न जाने किमद्यापि चिरयति ? इति । ( ततः प्रविशति व्यवसायसागरः । ) व्यवसायसागरः - (पुरो विलोक्य सोल्लासं) (१) एसो सो पुण्णकेदु अमचो, जो निमिस पि निसासु वि न सुयइ पहुरज्जकजचिंताए । एयरस लहइ को चरणरेणुकणकरणिलेसं पि ? ॥ ४ ॥ ( १ ) एष स पुण्यकेतुरमात्यः । यो निमिषमपि निशास्वपि न स्वपिति प्रभुराज्यकार्यचिन्तया । तस्य लभते को चरणरेणुकर जिलेशमपि ? | "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy