SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ १३० मन्त्रियशः पालविरचितं रागकेसरः- (सोचैर्हास ) अर्द्धाङ्गे गिरिजां बिभर्त्ति गिरिशो विष्णुर्वहत्यन्वहं शस्त्रश्रेणिमथाऽक्षसूत्रवलयं धत्ते च पद्मासनः । पौलोमी चरणाहतिं च सहते हृष्टः सहस्रेक्षण स्तद्देवः किमु मन्त्रमण्डपमलंचक्रे न जानीमहे ? ॥ ५६ ॥ प्रतीहारः- - एष देवः श्रीमोहस्वामी । तदुपसर्पत यूयम् । सर्वे (उपसृत्य प्रणम्योपविश्य च साटोपं ) M देवाः सर्वेऽपि सेवामहमहमिकया कुर्वते शक्रपूर्वा मौलौ मालामिवाज्ञां दधति धृतभयोद्रेकमेकेन्द्रियाद्याः । वल्गन्ति स्त्रीकटाक्षाः कठिनमुनिमनोगर्वसर्वस्वचौराः [ पञ्चमौ कस्मादस्मानकस्मात्स्मरणपथ मिहानीतवानद्य देवः १ ॥ ५७ ॥ मोहराजः -- ( स विषादं ) भद्राः ! स्मरणकारणं वः प्रकाश्यमानमतित्रपाकरं तत्किमाचक्षीमहि ? | पापकेतुः - देव ! कदागममुखादेव श्रोष्यन्ति कुमारादयः । मोहराजः —— एवमस्तु । पापकेतुः (:-भद्र कदागम ! ततस्तत: ? । कदागमः - ( १ ) तदो गुज्जरनरेसरो सिद्धादेसेनिमित्तियपञ्च्चयपहिपुन्नकेदुपभिदिपगिदिउच्छाह दुगुणिदरणरंगो देवस्स उवरि आगेदु ज्ञेव इय जाणंतु । मोहराजः- - ( साक्षेमुपत्थाय खड्डूमादाय च ) अरे ! कासौ कासौ दुरात्मा ? | पापकेतुः - देव ! कृतं संभ्रमेण । ननु कथैवेयम् । अद्यापि दूरे स वैरिनरेन्द्रः । केवलं ' भाविनि भूतवदुपचारः' इति न्यायमाश्रित्यैवेदं प्रत्यपादि कदागमेन । ( १ ) ततो गुर्जरनरेश्वरः सिद्धादेशनैमित्तिकप्रत्ययप्रहृष्टपुण्य के तुप्रभृतिप्रकृत्युत्साह द्विगुणितरणरङ्गो देवस्योपर्यागत एवेति जानन्तु । १ B & C शनेमित्तिय २ B & C आगदो. "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy