SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ मोहराजपराजयम् । गर्जा जर्जर भूधराग्रशिखरस्तावन्मृगारिर्जयी यावन्नाम विजृम्भते न शरभः पाथोदसज्जक्रमः ॥ ३१ ॥ राजा - ( सरोमाचं ) अपरश्चास्ति कश्चिद्वीरश्रीविलासलालसः ? । ज्ञानदर्पणः -- ( सविनयं ) देव ! वीरचूडामणे ! विपक्षक्षमाभृत्पक्षोत्खननदम्भोलिपाणे ! गर्वपर्वतनामा सुभटमानमर्दनमुद्भावयति निजजैत्रचरित्रैः । तथा च ऽङ्कः ] दैतेयान्वयजीवितं सुरनरव्यालेन्द्रचूडामणि ज्योत्स्नाधौतपदाम्बुजासनतल: पौलस्त्यनामाऽभवत् । यो मां रामशराहतोऽपि न जहौ सोऽद्यापि विश्वत्रये मानीति स्मृतिकोविदैरहरहः सानन्दमुद्गीयते ॥ ३२ ॥ अपि च मुमोच मां बाहुबलिर्न याव द्राज्यं च युद्धं च चकार तावत् । तेन प्रमुक्ते मयि सोऽपि मुक्तो वाच्यं न किश्चिन्ननु तस्य पङ्गोः ? ॥ ३३ ॥ राजा - अहो ! दुरात्मनाऽनेन साधूक्तम् । यन्मुक्तः किञ्चिन्न विधत्त इति । भद्र 1 अन्योऽपि कश्चित्तत्र वीरत्वं प्रकटयति । ज्ञानदर्पणः - देव ! दम्भगुप्तनामा वीरंमन्यः स्वचरितं समुल्लासयति । तथा च रामं वञ्चितवान् यदेष केलयन्मार्गी तनुं राक्षसो कापालिकमुद्रया च हृतवान् सीतामहो ! रावणः । ११९ कृत्वा वामनतां बलिं फणिपुरे बद्धा हरिर्यन्न्यधा तस्मिन् कारणमस्मि गूढमनसो जानीत रे मां जनाः ! ॥ ३४ ॥ राजा- नियतं स प्रभवति प्रायेण कश्मलमनसां पुंसां नास्मादृशाम् । ( पुनः सवितर्के ) ज्ञानदर्पण ! अपरश्च कश्चित्सुभटसंपदा विडम्बयत्यात्मानं न वा ? | ज्ञानदर्पणः -देव ! विडम्बयत्येवात्मानम् | राजा- -क इव ? १ C वहता मार्गी तनुं रक्षसा. "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy