SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ऽङ्क:] मोहराजपराजयम् । देशश्रीः-(१) किं ति अन्नारिस व्व जादा सि । नगरश्रीः-(२) अजे ! मह सामी वि अणीदिसो संपदि वद्ददि । ता कधमहमन्नारिसा न भविस्सं ? ।। देशश्रीः-(३) केरिसो सामी इण्हि ? ति सोदुमिच्छामि । नगरश्रीः-(४) भगिणिके ! किं नालिकेरदीवादो आगदा सि ? जं इमं पि न मुंणेसि । णं संपदं गुरूवदेसलद्धजिणधम्माणुरत्तेण देवेण चत्तं मंसं आहेडओ य । संवुत्तो परमसावगो। जहा राया तहा पय त्ति अहं पि साविगा जाय म्हि । देशश्रीः-(५) वच्छे ! जुत्तमणुहिदं । नवरं ममावि उवदिससु सावयधम्म । नगरश्रीः-(संस्कृतमाश्रित्य) जिनो देवः कृपा धर्मो गुरवो यत्र साधवः । श्रावकत्वाय कस्तस्मै न श्लाघेताविमूढधीः ? ॥ १॥ देशश्रीः--(६ ) अच्छरियं अच्छरियं । असुदपुव्वो एस धम्मो । ता अजप्पभुदि अब्भुवगदो मए वि । अहं पि साविगा जांद म्हि । नगरश्रीः-(७) इत्तिकेण अणुगिहीद म्हि । । (१) किमिति अन्यादृशेव जातासि ? । (२) आर्ये ! मम स्वाम्यप्यनीदृशः संप्रति वर्तते । तत् कथमहमन्याशा न भवामि ?। (३) कीदृशः स्वामीदानीम् ? इति श्रोतुमिच्छामि । (४) भगिनिके! किं नालिकेरद्वीपादागतासि ? यदिदमपि न जानासि । ननु सांप्रत गुरूपदेशलब्धजिनधर्मानुरक्तेन देवेन त्यक्तं मांसं आखेटकश्च । संवृत्तः परमश्रावकः । यथा राजा तथा प्रजेत्यहमपि श्राविका जातास्मि । (५) वत्से ! युक्तमनुष्ठितम् । नवरं ममाप्युपदिश श्रावकधर्मम् । (६) आश्चर्यमाश्चर्यम् । अश्रुतपूर्व एष धर्मः । ततोऽद्यप्रभृत्यभ्युपगतो मयापि । अहमपि श्राविका जातास्मि । (७) एतावताऽनुगृहीतास्मि । १ B & C मुणसि. २ B & C जाय. "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy