________________
सोपानम् ।
सर्वशसाधनम् । रूपत्वासम्भवात् सर्वशून्यताप्रसङ्गात्सत्यस्वप्नज्ञानेऽतीताद्यर्थप्रतिभासे समानमेव दूषणमिति न वक्तुं शक्यम् । यथा वा सकलशास्त्रार्थापरिज्ञानेऽपि व्यवहारिणा सकलशास्त्रज्ञः कश्चि. निश्चीयते तथा केनचित् सकलपदार्थापरिज्ञानेऽपि सर्वज्ञत्वेन कस्यचिन्निश्चयीकरणे बाधकाभाव एव, अन्यथा सकलपदार्थापरिज्ञानेऽपि कथं युष्माभिरपि जैमिनिरन्यो वा वेदार्थज्ञत्वेन निश्चीयते तस्मात् सर्वज्ञसत्त्वेऽपि तत्कालेऽप्यसौ नासर्वातुं शक्यत इत्यादिजल्पन- 5 मल्पमेव । ननु सर्वज्ञज्ञानं प्रतिनियतचक्षुरादिजनितं किं धर्मादिग्राहकमुताभ्यासजनितं आहोस्वित् शब्दजनितं किं वाऽनुमानप्रभावितम् । नाद्यः प्रतिनियतरूपादिविषयस्य चक्षुरादेर्धर्मादिग्राहकत्वासम्भवात् । न द्वितीयः, अभ्यासो हि प्रतिनियते शिल्पकलादौ प्रतिनियतोपदेशात् सम्भाव्यते न च सर्वपदार्थविषयोपदेशसम्भवः, न था सर्वपदार्थविषयानुपदेश. ज्ञानसम्भवः येन तज्ज्ञानाभ्यासात्सकलज्ञानप्राप्तिः स्यात् सम्भवे वा सकलपदार्थविषयज्ञा- 10 नस्य सिद्धत्वेनाभ्यासप्रयासवैयर्थ्यात् । नापि तृतीयः पक्षः, शब्दस्य तत्प्रणीतत्वेन प्रामाण्ये सर्वपदार्थज्ञानसम्भवः, तत्सम्भवे च सर्वज्ञस्य तथाभूतशब्दप्रणेतृत्वमित्यन्योऽन्याश्र. यात् । नान्त्यः कल्पः धर्मादिग्राहकत्वेनाभ्युपगम्यमानस्य हेतोस्तेन सह सम्बन्धासिद्धेः, धर्मादेरतीन्द्रियत्वात् । अस्पष्टत्वेनानुमानस्य तज्जनितज्ञानस्यावैशद्यात्तेन सर्वज्ञायोगाच्च । न चानुमानज्ञानमविशदमपि पुनः पुनर्भाव्यमानमभ्यासबलादनक्षजस्यापि ज्ञानस्य कामशोकभयो- 15 न्मादचौरस्वप्नायुपप्लुतस्य वैशद्यमिव भावनाप्रकर्षपर्यन्ते योगिज्ञानरूपं सद्वैशद्यभाग् भवतीति वाच्यम् , तज्ज्ञानवदतीन्द्रियार्थविद्विज्ञानस्थाप्युपप्लुतत्वापत्तेः । न च रजोनीहाराद्यावरणावृतवृक्षादिदर्शनमविशदमपि तदावरणापाये विशदमिव रागाद्यावारकाणां विज्ञानावैशद्यहेतूनामपाये सर्वज्ञज्ञानं विशदतामनुभविष्यतीति वाच्यम् , रागादीनामावरणत्वासिद्धेः, कुड्यादीनामेव ह्यावारकत्वं लोके प्रसिद्धं न रागादीनामिति चेन्मैवम् , चक्षुरादिज्ञानस्य धर्मादि. 20 ग्राहकत्वेऽविरोधात् , सर्वदा हि पदार्थजनकत्वेन द्रव्यगुणकर्मजन्यत्वेन च धर्मादेः सर्वपदार्थविशेषणतयाऽतीतातीन्द्रियकालादेरिव विशेष्यविशेषणग्रहणप्रवृत्तचक्षुरादिना ग्रहणं सम्भवत्येव, मन्त्रादिद्वारेण कालविप्रकृष्टार्थग्राहकं यथा चक्षुर्भवति तथैव कस्यचित्पुरुषविशेषस्य पुण्यादिसंस्कृतं चक्षुरादिकं धर्मादेहिक भविष्यतीति न कश्चिद्विरोधः । उत्पादव्ययध्रौव्यं सदित्यादेः सामान्यतः सकलपदार्थविषयोपदेशस्य सम्भवेनाभ्यासपक्षेऽपि दोषा- 25 भावः, अनुमानादिप्रवर्तनद्वारेणैतदर्थाभ्यासे सकलविषयाभ्यास सम्भवात् । न चाभ्यासवैयर्थ्यम् , सामान्यविषयत्वेनास्पष्टरूपस्यैव ज्ञानस्य भावात् , अभ्यासजन्यस्य च सकलपदा
१ विषयापरिज्ञाने विषयिणोऽप्परिज्ञानाभ्युपगमे असकलवेदार्थविदा कथं जैमिन्यादेः सकलवेदार्थपरिज्ञाननिश्चयः स्यात् , तदनिश्चये च कथं तद्व्याख्यातार्थाश्रयणादग्निहोत्रादावनुष्ठाने प्रवृत्तिर्भवेदिति भावः ।।
"Aho Shrutgyanam"