________________
सम्मतितस्वसोपाने
[ द्वितीयं तीन्द्रियत्वेन तद्गतगुणनिर्णयो न सम्भवतीत्यभिधानं अप्रामाण्यजनकदोषनिर्णयेऽपि समानमेव, इन्द्रियाश्रितदोषसद्भाचे प्रमाणस्याप्रवृत्तेः । अतीन्द्रियस्वेन प्रत्यक्षस्याप्रवृत्तौ तन्मूलकानुमानादीनामध्यप्रवृत्ते, प्रतिबन्धादिनिश्चयासम्भवात् । यदि लोको मिथ्याज्ञानं दोषवश्चक्षु. रादिप्रभवमभिदधातीति न स्वतोऽप्रामाण्यमित्युच्यते तर्हि प्राक् लोचने सदोषे अभूतामि5 दानी समासादितगुणे संजाते इति लोकाभिप्रायात् प्रामाण्यमप्युत्पत्तौ परतः कथं न स्यात् । न च नैर्मल्यादिकं दोषाभाव एव, तिमिरादेरपि गुणाभावरूपत्वप्राप्तेः । ननु प्रामाण्यस्य स्वसामग्रीतो विज्ञानोत्पत्तावप्यनुत्पत्तौ तस्य किंस्वरूपमभ्युपगम्यते, प्रामाण्याप्रामा. ण्यातिरिक्तस्य तत्स्वरूपस्याभावात् । प्रामाण्यस्य पश्चादुत्पत्तौ च विरुद्धधर्माध्यासात्का
रणभेदाच तस्य भेद एव स्यात्तयोरेव भेदकत्वात् , अन्यथा सर्वमेकं जगत्स्यादतः स्वत 10 एव प्रामाण्यमिति चेन्न, अनवगतपराभिप्रायोपलम्भमात्रत्वात् , न हि चक्षुरादिसामग्रीतो
ज्ञानस्योत्पत्तावपि प्रामाण्यं पश्चान्नैर्मल्यादिभ्य. उत्पद्यत इत्यभ्युपगम्यते किन्तु गुणवञ्चक्षु. रादिसामग्रीत उत्पद्यमानं विज्ञान प्रामाण्य विशिष्टस्वरूपमेवोपजायत इति, अतो ज्ञानव. त्तदव्यतिरिक्तस्वभावं प्रामाण्यमपि परत उच्यते । न चार्थतथाभावपरिच्छेदरूपा शक्तिः
प्रामाण्यं घटस्योदकाहरणशक्तिवत्स्वत एव भवति सा नोत्पादककारणकलापाधीना, तस्याः 15 कारणेध्वविद्यमानत्वात् , ये हि कार्यधर्माः कारणेष्वविद्यमाना न ते कारणेभ्य उदयमासाद
यति कार्ये तत एव प्रादुर्भवन्ति किन्तु स्वत एवेति वाच्यम् , विपरीतार्थपरिच्छेदशक्तिरूपस्या.प्रामाण्यस्यापि तुल्यन्यायेन स्वतस्त्वापत्तेः, इन्द्रियादिकारणेभ्य आत्मनि ज्ञानमेवोत्पद्यते न पुनश्शक्तय इत्यत्र नियामकाभावात् । शक्तीनामेव स्वत उत्पत्तिर्न पुनस्तदाधारज्ञानविशेषाणामित्यत्रापि नियामकाभावाच्च, न हि शक्तयो ज्ञानविशेषेभ्यो भिन्नाः, येन स्वकारणेभ्यो ज्ञान20 स्योत्पत्तावपि तेभ्य उत्पत्ति नासादयेयुः । न वा तस्यास्ततो भिन्नत्वम् , ततोऽभवन्त्यास्त
स्यास्तेन सम्बन्धासम्भवात् , भिन्नानां कार्यकारणभावातिरिक्तस्य सम्बन्धस्यासम्भवात् , तदभावे आश्रयायिभावस्याप्यसम्भवात् । न च धर्मत्वाच्छक्तेर्ज्ञानमाश्रय इति वाक्यम् , पारतंत्र्याभावे वस्तुतो धर्मत्वा सम्भवात् । न च शक्तिरूपं प्रामाण्यं स्वोत्तरकालभाविसंवा
दप्रत्ययान्न जन्यत इत्येतावता स्वतस्त्वमुच्यते न तु ज्ञानकारणान्नोत्पद्यत इतीति वाच्यम् , 25 सिद्धसाधनात्, एवमप्रामाण्यस्यापि स्वतस्त्वापत्तेश्च, न ह्युत्पन्ने ज्ञाने तदप्युत्तरकालभावि. विसंवादप्रत्ययात्तत्रोत्पद्यत इति कस्यचिदभ्युपगमः । तस्मात्प्रामाण्यस्य शक्तिरूपस्य गुणव
१ अयं भावः प्रामाण्याप्रामाण्ये नैकव्यक्त्याधारे स्वतो भवतः, परस्परपरिहारस्थितिकत्वेनैकन विरोधात् , नापि व्यक्तिभेदेन नियते, नियामकाभावात् । नवोभये परतः, उभयस्वभावात् पूर्व ज्ञानस्य निःस्वभावतापत्तः, अप्रामाण्यस्य स्वतस्व प्रामाण्यस्य परतः स्वीकृती प्रामाण्याशङ्कव न स्यात् , स्वयमेवाप्रमाणलात् , तस्माद्त्यन्तराभावात् सर्वप्रमाणानां प्रामाण्यं स्वतः परतस्त्वप्रामाण्यमिति ।।
"Aho Shrutgyanam"