SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ सम्मतितत्वसोपाने [ सप्तत्रिंशम् एतदेवाह-~ एयन्तासम्भूयं सन्भूयमणिच्छियं च वयकमाणो । लोइयपरिच्छियाणं वयणिजपहे पडइ वादी ॥ ५९॥ एकान्तासद्भुतं सद्भूतमनिश्चितञ्च बदन् । लौकिकपरीक्षकाणां वचनीयपक्षे पतति वादी ॥ छाया ॥ एकान्तेति, असत्यमेकान्तेनासद्भूतं सद्भूतमप्यनिश्चितं वदन वादी लौकिकानां परीक्षकाणाञ्च वचनीयमार्ग पतति । अनेकान्तात्मकाद्धि हेतोः तथाभूतमेव साध्यधर्मिणं साधयन् वादी सद्वादी भवेदिति तथैव साध्याविनाभूतो हेतुर्धर्मिणि तेन प्रदर्शनीयः, तन्मात्रादेव साध्यप्रतिपत्तेः सपक्षविपक्षयोः सदसत्त्वे नावश्यं प्रदर्शनीये । तथापि तत्र तयोविद्यमानतयाऽ 10 वश्यं प्रदर्शनीयत्वे ज्ञातत्वादीनामप्यपरधर्माणां तत्र सतां प्रदर्शनीयता स्यात् । यदि सामर्थ्यात्ते प्रतीयन्त एवेति न प्रदान्ते तदाऽन्वयव्यतिरेकावपि तत एव नावश्यं प्रदर्शनीयौ, अत एव दृष्टान्तोऽपि नावश्यं वाच्यः, तस्य साधर्म्यवैधर्म्यप्रदर्शनपरत्वात् । उपनयनिगमनयोस्तु दूरापास्तता, तदन्तरेणापि साध्याविनाभूतहेतुप्रदर्शनमात्रात् साध्यप्रतिपत्यु. त्पत्तेः, अन्यथा तदयोगान् । हेतोबैलक्षण्य प्रदर्शनवादिनस्तु निरंशे लक्षण्यविरोधानिरं15 शवस्त्वभ्युपगमविरोधः स्यात् , परिकल्पितस्वरूपत्रैरूप्याभ्युपगमोऽप्यसङ्गतः, परिकल्पि तस्य परमार्थसत्त्वे तदोषानतिवृत्तेः, अपरमार्थसत्त्वे तु तल्लक्षणत्वायोगः, असतः सल्लक्षण. त्वविरोधात् , न हि कल्पनाव्यवस्थापितलक्षणभेदाल्लक्ष्यभेदो युक्त इति लिङ्गस्य निरंशस्वभावस्य किश्चिद्रूपं वाच्यम , न च साधादिव्यतिरेकेण तस्य स्वरूपं प्रदर्शयितुं शक्यत इति तस्य निःस्वभावताप्रसक्तिः । न चैकलक्षणहेतुवादिनोऽप्यनेकान्तात्मकवस्त्वभ्यु. 20 पगमादर्शनव्याघात इति वाच्यम् , प्रयोगनियम एवैकलक्षणो हेतुरित्यभिधानात, न च स्वभावनियमे तथाभूतस्य शशशृङ्गादेरिव निःस्वभावत्वम , गमकताङ्गनिरूपणकलक्षणो हेतुरिति व्यवस्थापितत्वात् । न चैकान्तवादिना प्रतिबन्धग्रहणमपि युक्तिसङ्गतम् , अविचलितस्वरूपे आत्मनि ज्ञानपौर्वापर्याभावात् , प्रतिक्षणध्वंसिन्यप्युभयग्रहणानुवृत्तकचैतन्य. स्याभावात् , कारणस्वरूपग्राहिणा ज्ञानेन कार्यस्य तत्स्वरूपग्राहिणा च कारणस्य ग्रहणासम्भ25 वात् , एकेन च द्वयोरग्रहणे कार्यकारणभावादिप्रतिबन्धग्रहणायोगात् । न च कार्यानुभवान न्तरभाविस्मरणेन कार्यकारणभावोऽनुसन्धीयत इति वक्तव्यम , अनुभूत एव स्मरणोदयेन प्रतिबन्धस्योभयनिष्ठस्य केनचिदननुभवात , उभयस्य पूर्वापरकालभावित्वेन एकेनाग्रहणात् , न वा स्मरणस्य कार्यानुभवो जनकः, तदनन्तरमेव स्मरणस्याभावात् , नापि क्षणिकैकान्तवादे कार्यकारणभावः सम्भवतीत्युक्तमेव, सन्तानादिकल्पनापि नात्रोपयोगिनी । स्मरणकाले "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy