SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ सम्मतितत्त्वसोपाने [द्वात्रिंशम् । क्रियमाणे पृथिव्यादिपरमाणुद्रव्यवदणुपरिमाणयोगित्वेन गुणवत्त्वाद्रव्यरूपतैव स्यात् , न गुणत्वम , एवम्भूतानाश्वाणुशो भिन्नानां गुण इति संज्ञाकरणे न नाम्नि विवादः, न चाणुत्वेऽप्याश्रितत्वाद्गुणत्वं युक्तम् , सदसतोराश्रयानुपपत्तेरतिप्रसङ्गाच, अवय विद्रव्यस्यापि अवयवद्रव्याश्रितत्वापत्तेः । संख्या चैकत्वादिव्यवहार हेतुरेकत्वादिस्वरूपा । सा एकद्रव्या 5 चानेकद्रव्या च, तत्रैकसंख्या एकद्रव्या सलिलादिपरमाण्वादिगतरूपादीनामिव नित्यानित्यत्वनिष्पत्तिरूपा अनेकद्रव्या द्वित्वादिसंख्या, अनेकविषयबुद्धिसहितेभ्य एकत्वेभ्यो निष्पन्ना, तस्या अपेक्षाबुद्धिविनाशा द्विनाशः कचिदाश्रयविनाशात् , इयं द्विविधापि संख्या प्रत्यक्षत एव सिद्धति परमतम् , तन्न, एकत्वादिसंज्ञाविषयपदार्थव्यतिरेकेणोपलब्धिलक्षणप्राप्तायाः संख्यायाः शशविषाणवदनुपलब्धेरसत्त्वात् , न चोपलब्धिलक्षणप्राप्तत्वमसिद्धम् , तस्या दृश्य10 त्वेनाभ्युपगमात् । यथा चैक ज्ञानं वे ज्ञाने इत्यादिबुद्धेः संख्यामन्तरेणापि निर्वाहस्तथैको घट इत्यादिबुद्धरपि असहायादिषु घटादिषु स्वेच्छाकल्पितैकत्वादिशब्दसंकेतविहितमनस्कारप्रभवस्वाद्विशेषबुद्धितोऽपि न संख्यासिद्धिः, न हि ज्ञानादौ गुणत्वात्संख्याऽस्ति तस्याद्रव्यत्वात् संख्यायाश्च गुणत्वेन द्रव्याश्रितत्वादतो न दृष्टान्तसिद्धिः । न च ज्ञानादौ एकत्वादिज्ञानमु. पचरितम् , अस्खलद्वृत्तित्वात् , द्रव्यसमवेतादेकत्वादेरेकार्थसमवायित्वादेतज्ज्ञानं गुणादौ 15 भविष्यतीति चेन्न, एकस्मिन् द्रव्ये रूपादयो बह्वो गुणा इति ज्ञानानुदयप्रसङ्गात् , आश्रये द्रव्ये बहुत्वसंख्याया अभावात् , एकार्थसमवायादेर्जायमानप्रत्ययस्य गौणतापत्त्या माणवकेऽ नलप्रत्ययवस्खलितताप्रसङ्गाच्च । न च गजतुरगादौ संख्याप्रत्ययो गजादिव्यतिरिक्तनिब न्धनो गजादिविलक्षणप्रत्ययत्वात् , नीलपटप्रत्ययवादिति संख्यासिद्धिरिति वाच्यम् , निमित्त__ मात्रसाधने इच्छारचितसंकेतमनस्कारादिनिमित्ताभ्युपगमेन सिद्धसाधनात्, एतद्व्यतिरि20 क्तनिमित्तसाधने बुद्ध्यादावनैकान्तिकत्वात् , तत्रैकादिबुद्धर्विलक्षणत्वेऽपि संख्यानिबन्धनस्वाभावात् । अनेकद्रव्या द्वित्वादिसंख्यापि संकेताभोगमात्रेणोपपद्यते, एवं सति अदृष्टसाम यस्य हेतुत्वं न कल्पितं स्यात् , अन्यथाऽपेक्षाबुद्धेरदृष्टसामर्थ्यायाः तद्धेतुत्वेऽन्यस्यापि तद्धेतुताप्रसङ्गेनानवस्था भवेत् । तथा द्वित्वादिसंख्याया एकस्या अनेकवृत्तित्वासम्भवः एक स्यानेकवृत्तेः प्रतिषिद्धत्वात् । परिमाणव्यवहारकारणं महदणुदीर्घहस्वभेदं नित्यानित्यविभाग 25 रूपादिप्रत्ययविलक्षणबुद्धिग्राह्यतया रूपादिभ्योऽर्थान्तरत्वेन सिद्धं परिमाणं परो मन्यते, तत्र रूपादिविषयेन्द्रियबुद्धिलक्षणप्रत्यक्षप्रत्ययग्राह्यत्वाद्रूपादिभ्यस्तस्यार्थान्तरत्वेन साधने हेतु १ यथा वाहीको गौरिति प्रत्ययः स्खलति. गौरिव गौ तु गौरेव सास्नाद्यभावादिति, न तथा स्खलति एकमिवैक ज्ञानादि न त्वेकमे वेति, किं नाद यादशी घटादिनस्पलिना बुद्धिर्भवति तादृशी ज्ञानादिश्य "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy