SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ सम्मतितत्त्व सोपाने [ एकोनत्रिंशम् भजनेति, यथा भजना अनेकान्तो भजते सर्ववस्तूनि तदतत्स्वभावतया ज्ञापयति तथा भजनापि भजनीया, अनेकान्तोऽप्यनेकान्त इत्यर्थः, नयप्रमाणापेक्षया एकान्तश्चानेकान्तश्चेति ज्ञापनीयः एव भजना सम्भवति नियमञ्च, अनेकान्ते एकान्तश्चेत्यर्थः । सिद्धान्तस्य रयणप्पभासिया सासया सियाऽसासया' ( जीवाजीवाभि० प्रतिप० ३ उ० १, 5 सू० ७८ ) इत्येवमनेकान्तप्रतिपादकस्य ' व्बट्टयाए सासया पज्जवट्टयाए असासया इत्येवं चैकान्ताभिधायकस्याविरोधेन । न चैवमव्यापकोऽनेकान्तवादः स्यात्पदसंसूचितानेकान्तगर्भस्यैकान्तस्य तत्त्वात्, अनेकान्तस्यापि स्यात्कारलाञ्छनैकान्तगर्भस्याने कान्तस्वभावत्वात्, न चानवस्था, अन्यनिरपेक्षस्वस्वरूपत एव तथात्वोपपत्तेः, यद्वा स्वरूपत एवानेकान्तस्यैकान्तप्रतिषेधेनानेकान्तरूपत्वात् स्यादेकान्तः स्यादनेकान्त इति कथं नानेकान्तेऽने10 कान्तोsपि । अनेकान्तात्मक वस्तुव्यवस्थापकस्य तद्व्यवस्थापकत्वं स्वयमनेकान्तात्मकत्वमन्तरेणानेकान्तस्यानुपपन्नमिति न तत्राव्यापकत्वादिदोष इत्यसकृदावेदितमिति ॥ २४ ॥ नन्वनेकान्तस्य व्यापकत्वे षड्जीवनिकायाः, तदुद्घाते वा धर्म इत्यात्राप्यनेकान्त एव स्यादित्यत्राह : २६८ : 15 नियमेण सहहंतो छक्काए भावओ न सद्दहइ | हंदि अपज्जवेसु वि सद्दहणा होइ अविभत्ता ॥ २५ ॥ नियमेन श्रद्धधानः षट्कायान् भावतो न श्रद्धत्ते । हंदि अपर्यवेष्वपि श्रद्धा भवत्यविभक्ता । छाया ॥ नियमेनेति, षडेवैते जीवाः कायाश्चेति नियमेन श्रद्धधानः षट्कायान् भावतः परमार्थतो न श्रद्धत्ते जीवराश्यपेक्षया तेषामेकत्वात् कायानामपि पुद्गलतयैकत्वात्, जीवपुद्ग20 लप्रदेशानां परस्पराविनिर्भागवर्त्तित्वाच्च जीवप्रदेशानां स्यादजीवत्वं प्रत्येकं प्राधान्यविवक्षया स्यादनिकायत्वम्, सूत्रविहितन्यायेन प्रवृत्तस्याप्रमत्तस्य हिंसाऽप्यहिंसेति तद्वाते स्यादधर्म इति, न भावसम्यग्दृष्टिरसौ स्यात्, द्रव्यसम्यग्दृष्टिस्तु स्यात् भगवतैवमुक्तमिति जिनवचनरुचिस्वभावत्वात् । ततोऽपर्यायेष्वपि न विद्यन्ते अर्चिर्मुर्मुरादयो विवक्षितपर्याया येषु पुद्गलेषु तेष्वपि अविभक्त श्रद्धानं यत्तदपि भावत एव भवेत्, अर्चिष्मानयं भावो भूतो भावी 25 वेति, तन्नाव्यापकोऽनेकान्तवादः || २५ ॥ नन्वनेकान्तस्य व्यापकत्वे गच्छति तिष्ठतीत्यत्राप्यनेकान्तः स्यात, तथाऽभ्युपगमे च तयोरभावप्रसक्तिरित्यत्राह - १. हन्दिर्विषादविकल्पपश्चात्तापनिश्चयसत्येषु वर्तते ॥ "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy