SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ : २१८ : सम्मतितश्व सोपाने पञ्चविंशम् तस्या न सम्भवति, अनित्यत्वे ज्ञानात्प्रागुत्पन्नत्वे च न ज्ञानधर्मो भवेत्, धर्मिणोऽभावात्, सहोत्पादे च तादात्म्यतदुत्पत्तिसमवायादिसम्बन्धाभावे तस्य धर्म इति व्यपदेशानुपपत्तिः पञ्चादुत्पादे पूर्वं तज्ज्ञानं व्यभिचारि स्यात् । यद्यव्यभिचारितादि ज्ञानस्त्ररूपं तर्हि विपर्ययज्ञानेऽपि तत्प्रसक्तिः, विशिष्टज्ञानमव्यभिचारितादिस्वभावमिति चेन्न विशेषमन्तरेण विशि5 ष्टतानुपपत्तेः विशेषस्य चैकान्ततो भेदे सम्बन्धानुपपत्तिः, अभेदे च न विशिष्टता, कथचिद्भेदे तु परपक्षसिद्धिः, तस्मान्नाव्यभिचारिता पदोपादानमर्थवत् । किश्च मरीच्युदकज्ञानस्य इन्द्रियार्थसन्निकर्ष पदेनैव व्यावृत्तिसम्भवादव्यभिचारिपदोपादानं निरर्थकम्, तज्ज्ञाने दकं प्रतिभाति न तेनेन्द्रियसम्बन्धः, अविद्यमानत्वात्, अन्यथा व्यभिचारिता न स्यात् न च मरीचिभिः सम्बन्धादिन्द्रियार्थसन्निकर्षप्रभवत्वं तज्ज्ञानस्येति वाच्यम्, अप्रतिभासमानमरीच्यादेरालम्बनत्वासम्भवात् ज्ञानजनकतामात्रेणालम्बनत्वे इन्द्रियादेरप्यालम्बनता स्यात् । न चोदकाकारतया ते प्रतिभान्तीति वाच्यम्, उदकाकारताया ताभ्यः अभेदे पर - मार्थसत्त्वे च तत्प्रतिपत्तेर्व्यभिचारित्वासम्भवात् । अपरमार्थसत्त्वे च तासामप्यपरमार्थसत्वप्रसक्तिः । अपारमार्थिकोदकतादात्म्ये च मरीचीनां तदुदकज्ञानवन्मरीचिज्ञानमपि वितथं भवेत् | न चोदकाकार एकस्मिन् प्रतीयमाने मरीचयः प्रतीयन्त इति वक्तुं शक्यमतिप्रस15 ङ्गात् । ताभ्यो व्यतिरेके तु उदकप्रतिपत्तौ कथं मरीचयः प्रतिभान्ति, अन्यप्रतिभासेऽप्यन्यप्रतिभासाभ्युपगमेऽतिप्रसङ्गात् । न च मरीचिदेशं प्रति प्रवृत्तेः मरीच्यालम्बनत्वम्, एवं सति तद्देशस्यालम्बनत्वप्रसक्तेः । न च प्रतिभासमानभिन्नार्थसन्निकर्षजत्वमुदकविज्ञानस्योपपद्यते, सत्योदकज्ञानेऽदृष्टत्वात्, अन्यथाऽनुमेयवह्निज्ञानस्यापि इन्द्रियार्थसन्निकर्षजत्वमापनीपत, आत्ममन: सन्निकर्षजत्वात् । अथ प्रतीयमानवह्निना नास्ति मनसः सम्बन्ध इति चैतदेहापि नोदकेन सह चक्षुषस्सम्बन्ध इति व्यर्थमव्यभिचारिपदम् । तथा व्यवसाय पदमपि न संशयज्ञानव्यवच्छेदार्थं कार्यम्, इन्द्रियार्थसन्निकर्षपदेनैव तद्वाणसम्भवात्, न हि पराभ्युपगमेन स्थाणुत्र पुरुषो वेति संशयज्ञानमेकमुभयोल्लेखीन्द्रियार्थसन्निकर्षजं सम्भवति, सामान्यप्रत्यक्षाद्विशेषाप्रत्यक्षाद्विशेषस्मृतेश्च किं स्त्रिदित्यनवधारणात्मकः प्रत्ययः संदेहः, तत्र किं प्रतिभाति धर्मिमात्रं धर्मों वा, यदि धर्मी वस्तुसन् प्रतिभाति तदा सम्यग्ज्ञान25 त्वान्न व्यवच्छेद्यः, अथावस्तु सन्न सावत्र प्रतिभाति तदाव्यभिचारिपदव्यावर्त्तितत्वान्न व्यवसायपदं सार्थकम्, यदि धर्मः प्रतिभाति, तथा स किं स्थाणुत्व पुरुषत्वान्यतरः, उभयं वा, प्रथमे स्थाणु लक्षणो यदि वस्तुसन तर्हि न तज्ज्ञानं व्यवच्छेद्यं सम्यग्ज्ञानत्वात्, यद्यवस्तु सन् तदा तज्ज्ञानमव्यभिचारिपदापोह्यमेत्र, पुरुषत्वधर्मप्रतिभासेऽप्येवं वाच्यम्, उभयमिति पक्षेऽपि तथैव । एकस्य धर्मस्य तात्त्विकत्वेऽपरधर्मस्यातात्त्विकत्वेऽपि तात्त्विकधर्मावभासित्वा 20 10 " Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy