SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ सोपानम् प्रत्यक्षलक्षणपरीक्षा । प्रति गमनं तत्प्रकाशनञ्च न स्यादतस्तदर्थं तदुन्मीलनं तत्संस्कारश्च न व्यर्थ उच्यते तर्हि गोलकानुषक्तकामलादेः प्रकाशकत्वं तेषां स्यात्, न हि प्रदीपः स्वात्मानं शलाकादिकं न प्रकाशयतीति दृष्टम् । गोलकान्तर्गतं किश्चित्तेजोद्रव्यमस्ति तस्य रश्मय इत्यभ्युपगमेऽप्ययं दोषस्तुल्यः, न हि काचकूपिकान्तर्गताः प्रदीपादिरश्मयस्ततो निर्गच्छन्तस्तत्सम्बद्धमर्थ न प्रका. यन्तीति, तदेवं रश्मीनामसिद्धेन ते चक्षुःशब्दाभिधेयाः । अथ रसनादयो बाह्येन्द्रियत्वात् 5 प्राप्तार्थप्रकाशका उपलब्धाः बाहोन्द्रियं च चक्षुः, ततस्तदपि प्राप्तार्थप्रकाशकम् , न च गोलकस्य बाह्यार्थप्राप्तिः सम्भाविनीति पारिशेष्यात्तगश्मीनां तत्प्राप्तिरिति रश्मिसिद्धिः, न, अ. त्यासन्नमलाञ्जनशलाकादेः प्रकाशप्रसक्तेः । किञ्च यदि गोलकान्निर्गत्य बाह्यार्थेनाभिसम्बद्ध्य तद्रश्मयोऽथ प्रकाशयन्ति तीर्थं प्रत्युपसर्पन्तरत उपलभ्येरन , रूपस्पर्शविशेषवतां तेजसानां वयादिवत्सतामनुपलम्भे निमित्ताभावात्, न चोपलभ्यन्त इत्युपलब्धिलक्षणप्राप्ता- 10 नामनुपलम्भादसत्त्वम् । न चानुद्भूतरूपस्पर्शत्वात्स्वर्णतप्तोदकयोरिव तेषामनुपलम्भ इति वाच्यम् , स्वर्णतप्तोदकयोस्तेजस्त्वासिद्धेः, दृष्टानुसारेण चानुपलभ्यमानभावकल्पनाः प्रभ. वन्ति, अन्यथा रात्रौ भास्करकराः सन्तोऽपि नोपलभ्यन्ते अनुद्भूतरूपस्पर्शत्वान्नायनरश्मिवदित्यपि कल्पनाप्रसक्तेः । न च चक्षुस्तेजोरश्मिवत् , रूपादीनां मध्ये रूपस्यैव प्रकाशकत्वात् , प्रदीपव दित्यनुमानात्तद्रश्मिसत्त्वसिद्धिरिति वाच्यम् , गाढान्धकारायां रात्री 15 वृषदंशचक्षुः, बाह्यालोकसव्यपेक्षार्थप्रकाशकं चक्षुष्ट्वात् , दिवा पुरुषचक्षुर्वदित्यनुमानेन तदा भास्करकराणामपि सिद्ध्यापत्तेः । न च वृषदंशकादेश्चाक्षुषं तेजोऽस्ती न किञ्चित्प्रयोजनमनुद्भूतभास्करकरकल्पनयेति वाच्यम् , मनुष्यादीनामपि तदस्तीति बाह्यतेजसो वैयापत्तेः । न च दृष्टानुसारित्वादभ्युपगमस्य नायनं सौर्य च तेजो मनुष्यादीनां विज्ञानकारणं मार्जारादे रात्रौ नायनमेव दृश्यत इति तदेव कारणमिति वाच्यम् , तथा दर्शनस्यैवाभावात् , नरनायमर- 20 इम्यदर्शनात् तेषामनुमेयत्वे तु रात्रौ. भास्करकराणामपि तथा स्यात् , न चान्धकारावष्टब्धायां रात्रौ भास्करकरसंभवे नक्तञ्चराणामिव नराणामपि रूपदर्शनं स्यादिति वाच्यम् , सता. मपि तत्कराणां नरान् प्रति रूपदर्शनजननासमर्थत्वात् , यथा त एव वासरे उलूकादीनाम्, भावशक्तीनां विचित्रत्वात् ; तस्मादनुपलम्भात् क्षपायां यथा न भास्करकरास्तथा नायनार. श्मयोऽन्यदेति स्थितम् । यदपि चक्षुः, स्वरइिमसम्बद्धार्थप्रकाशकम् , तैजसत्वात् , प्रदीप- 25 वदित्यनुमानम् , तदपि न सम्यकू, किमनेन चक्षुषोरश्मयः साध्यन्ते उतान्यतः सिद्धानां ग्राह्यार्थसम्बन्धस्तेषां साध्यते, आये तरुणनारीनयनानां दुग्धधवलतया भासुररश्मिरहि. तानामध्यक्षतः प्रतीतेः कालात्ययापदिष्टो हेतुः । न चाध्यक्षग्रहणयोग्यस्यानुपलम्भो बाधा, यथाऽनुष्णोऽग्निः सत्त्वादित्यादौ, नायनाश्च रश्मयो नाध्यक्षग्रहणयोग्याः सदा तेषामह "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy