________________
१२०७ ।
10
सोपानम् ।
प्रत्यक्षलक्षणपरीक्षा। यन्निरंशप्रभवं तन्निरंशग्राहीति वाच्यम् , निरंशरूपक्षणप्रभवस्याप्युत्तररूपक्षणस्य तदाहित्वादर्शनात् । न च ज्ञानत्वे सतीति विशेषणानायं दोषः, प्रत्यक्षप्रभवविकल्पस्य ज्ञानत्वेऽपि तद्भावानुपपत्तेः, उपपत्तौ वा हिंसाविरतिदानचित्तस्वसंवेदनाध्यक्षप्रभवनिर्णयेन तद्हणोपपत्तेः निश्चयविषयीकृतस्य चानिश्चितरूपान्तराभावात् स्वर्गप्रापणसामादेरपि तद्गतस्य निश्चयात् तत्र विप्रतिपत्तिर्न भवेत् । अथानुभवस्यैवायं यथावस्थितवस्तुग्रहणलक्षणः स्वभावविशेषो न 5 विकल्पस्य तेनायमदोषस्तहिं यथा दानचित्तानुभवः स्वसंवेदनाध्यक्षलक्षणः तद्गतं सद्रव्यचेतनादिकं विषयीकरोति तथा स्वर्गप्रापणसामर्थ्यमपि तत्स्वरूपाव्यतिरिक्तत्वात् विषयीकुर्यात् ततश्च सद्व्यचेतनत्वादाविव तत्रापि विवादो न भवेत् । अथ तचित्तादभिन्नं तत्प्रापणसामर्थ्य तगृहे गृहीतमेव किन्तु स्वसंवेदनस्याविकल्पकाध्यक्षतया तद्गृहीतस्यागृहीत. कल्पत्वाद्विवादसम्भवः, न निर्विकल्पकाध्यक्षविषयत्वाद्हीतस्यापि सामर्थ्य स्यातगृहीत. कल्पत्वे सञ्चित्तस्यापि तत एवागृहीतकल्पत्वापत्तेः, अविशेषात् , तथा च यद्दानादिचित्तं द्वहुजन सेव्यतानिबन्धनम् , यथा त्यागिनरपतिचित्तम् , दानादिचित्तश्च विवक्षितमित्याद्यनुमानमगमकं प्रसज्येत, आश्रयासिद्धत्वादिदोषात् । तस्माद्वस्तुनो निरंशतायां तश्चिनग्रहणे तत्सामर्थ्यस्यापि ग्रहणप्रसक्तेर्विवादाभावो भवेत् , न चैवमिति सांशं वस्तु तथाभूतवस्तुग्राहकं प्रमाणमपि सांशं सत् सविकल्पकम् । किञ्चार्थप्रभवत्याज्ज्ञानं यद्यर्थग्राहक तहीन्द्रि. 15 यादेरपि ग्राहकं भवेत् , तत्प्रभवत्वात् , न चेष्टापत्तिः, अतीन्द्रियत्वात् , किञ्च प्रमातृप्रमेयाभ्यामर्थान्तरमर्थसहकार्यर्थवत्प्रमाणमिति नैयायिकैः स्वीकृतम् , तेन न तत्प्रभवत्वं तन्निमित्तम् , तदभ्युपगमे वा शब्दज्ञाने शब्दवत्तत्समवायिकारणकर्णशष्कुल्यवच्छिन्ननभोदेशाख्य. श्रोत्रंद्रियतत्समवाययोरपि प्रतिभासः स्यादित्याकाशसमवायविषयानुमानोपन्यासो वैयर्थ. मनुभवेत् , प्रत्यक्षसिद्धत्वात् , न च समवायविषयाध्यक्षस्याविकल्पकत्वेन गृहीतस्याप्य- 20 गृहीतरूपत्वान्नायं दोष इति वाच्यम् , शब्देऽप्यस्य समानत्वात् , यतो नैकमेकत्र निर्णयात्मकमपरवान्यथेत्येकान्तवादिनो वक्तुं युक्तम्, एवं रूपतत्सामान्यसमवायेष्वपि वाच्यम् । अथ न कारणमित्येवार्थग्रहः किन्तु योग्यतातः, नन्वेवं किं निमित्तमर्थस्य ज्ञान प्रतिकारणता कल्प्यते, न च तद्हणान्यथानुपपत्त्या तत्प्रति न तस्य कारणता परिकल्प्यते किन्तु अन्वयव्यतिरेकाभ्यामिति वाच्यम् , योगिज्ञानस्य सकलातीतानागतपदार्थाभावेऽपि 20 भावाभ्युपगमात् , न हि सर्वेऽप्यतीतानागता भावास्त दा सन्ति सर्वभावानां नित्यताप्रसक्तेः । न च तद्विषयं तज्ज्ञातं न भवति, सदसद्वर्गः कस्यचिदेकज्ञानावलम्बनः, अनेक. स्वात् पञ्चाङ्गुलिवदित्यनुमानविरोधात् । अत एव नाननुकृतान्वयव्यतिरेकं कारणं नाकारणं विषय इति सौगतमतमप्यपास्तम् , तथाहि किं कारणं विषय एव, उत कारणमेव विषयः,
"Aho Shrutgyanam"