SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ सोयानम् ] प्रत्यक्षलक्षणपरीक्षा । : २०५: योगात् । यथा च विकल्पस्य स्वार्थनिर्णयात्मकत्वं तथा चक्षुरादिबुद्धीनामपि तयुक्तम् , अन्यथा तासां तद्राहकत्वायोगात् , अथ विकल्पस्य बहिरर्थे प्रवृत्तिरेव नास्तीति कथं स तन्निर्णयात्मकः, न हि नीलज्ञानं पीताप्रवृत्तिकं तन्निर्णयात्मकं वक्तुं शक्यम् , प्रतिपत्रभिप्रा. यवशात् , बौद्धैः बाह्यार्थव्यवसायात्मकत्वं विकल्पस्य परमार्थतो निर्विषयत्वेऽपि व्यावर्ण्यते तदयुक्तम् , यतः किमिदं परमार्थतो विकल्पस्य निर्विषयत्वम्, यद्यात्मविषयत्वं 5 तात्मविषयं निर्विकल्पकमपि ज्ञानं निर्विषयमियर्थनिर्णयात्मकत्वाद् बलवान् विकल्पो निर्विकल्पकानुभवस्य तिरस्कारकइत्यसङ्गत स्यात् , सविकल्पकस्यैव कस्यचिदभावादात्मविषयस्य निर्विकल्पकस्यापि विकल्पवत् सविकल्पकस्यैव वाभावात् , नचैवं कस्यचित् प्रतिपत्तुरभिप्रायः । अथ साधारणस्यास्पष्टस्य स्वपरयोरविद्यमानस्याकारस्य शब्दसंसर्गयोग्यस्य विषयीकरणं निर्विषयत्वम् , न, तस्य तत्र सम्बन्धाभावतो विषयीकरणासम्भवात् , 10 तथापि तद्विषयीकरणे सर्वमपि ज्ञानं तथैव स्वविषयं विषयीकुर्यादिति तदुत्पत्यादिसम्बन्धकल्पनमनर्थकमासज्येत, न च तादात्म्यलक्षणस्तत्र तस्य सम्बन्धः, तदाकारेऽविकल्पकत्वस्याविकल्पके वा तदाकारत्वस्य प्रसक्तेः । तदुत्पत्तिसम्बन्धवशात्तेन तद्हणमित्येतदप्ययुक्तम् , तदाकारस्य तज्ज्ञानोत्पादकत्वेन स्वलक्षणत्व प्राप्तेः तज्ज्ञानस्य सविषयताप्रसक्ति. दोषात् । न च स्ववासनाप्रकृति विभ्रमवशादतदुत्पन्नमतदाकारञ्च तत् तद्विषयीकरोति, 15 अक्षसमनन्तरविशेषादन्यस्याप्युपजातस्य तथास्वविषयीकरणप्रसक्त्याः सर्वत्र तदाकारतदुत्पत्तिप्रतिबन्धकल्पनावैयर्थ्यप्रसक्तेः । अतस्तदाकारविषयीकरणासम्भवाद्विकल्प्यार्थाभावतो दृश्यविकल्प्यार्थावेकीकृत्य प्रवर्तत इत्ययुक्तमभिधानम् , ततो न बलवान् विकल्प इति कथं तेनाविकल्पकतिरस्कार इति अविकल्पनिश्चयस्तदैव भवेत् , न चैवम् , अतो नाविकल्पस्य विकल्पेनैकत्वाध्यवसायः । किञ्च विकल्पेऽविकल्पकस्यैकत्वेनाध्यारोप इति कुतो 20 निश्चीयते, अस्पष्टास्वलक्षणमाहिणि स्पष्टस्वलक्षणग्राहित्वस्य प्रतीतेस्तदध्यारोपावगतिरिति चेन्न, यदि हि तत्र तत्प्रतीतिः तर्हि कुतोऽविकल्पारोपः, स्पष्टत्वादेस्तद्धर्मस्य तत्र दर्श. नादिति चेत् , स्पष्टत्वादिस्तद्धर्म इत्येतदेव कुतः, तत्र दर्शनादिति चेत् , अत एव विकल्पधर्मोऽप्यस्तु, अन्यथाऽविकल्पस्यापि मा भूत् । न च विकल्पव्यतिरेकेणापरमविकल्पमनुभूयते यस्य स्पष्टत्वादिधर्मः परिकल्पेत, एवमपि तत्र तत्परिकल्पने ततोऽप्यपरमननुभूयमानं 25 विशदत्वादिधर्माधारं परिकल्पनीयमित्यनवस्थाप्रसक्तिः । अथ किश्चिज्ज्ञानं सविकल्पकमपरं निर्विकल्पकं राश्यन्तराभावात् , विकल्पस्यार्थसामोद्भूतत्वासम्भवान्न विशदत्वादिधर्मयोगः, अविकल्पस्यापि तद्योगाभावे विशदत्वादिकं न कचिदपि भवेदित्यविकल्पकस्यैव तदभ्युपगन्तव्यमिति चेन्न, अर्थसामर्थ्यप्रभवत्वेन वैशद्यस्य व्याप्त्यभावात् , अर्थसामो. "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy