SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ सम्मतितत्वसोपाने [ द्वाविंशम् तत्र कम्पाद्युपलब्धेः छिन्नाच्छिन्नयोः पश्चात्कथं सङ्घटनमिति चेन्न, एकान्तेन छेदाभावात् , पद्मनालतन्तुवदविच्छेदाभ्युपगमात् , संघटनमपि तथाभूतादृष्टवादविरुद्धमेव । न वा गतिमतोऽनित्यत्वं दोषः, कथञ्चिदिष्टत्वात् , गृहान्तर्गतप्रदीपप्रभावत्संकोचविकाशात्मकत्वेन तस्य न्यायप्राप्तत्वात् । न च देहात्मनोरन्योन्यानुबद्धत्वे देहभस्मसाद्भावे तस्यापि तथा प्रसक्तिः, 5 क्षीरोदकवत् तयोर्लक्षणभेदतो भेदात् , न हि भिन्नस्वरूपयोरन्योऽन्यानुप्रवेशे सत्यपि एक क्षयेऽपरक्षयः, यथा काध्यमाने क्षीरे प्रथममुदकक्षयेऽपि न श्रीरक्षयः, तस्मान्मू मूर्ताद्यने. कान्तात्मकत्वमात्मनोऽभ्युपगन्तव्यमिति ॥ ५० ॥ एवं सत्येवात्मनो मिथ्यात्वादिपरिणतिवशोपात्तपुद्गलाङ्गाङ्गिभावलक्षणो बन्धः तद्वशोपनतसुखदुःखाद्यनुभवलक्षणो भोगश्चोपपद्यते नान्यथेति, प्रदर्शितन्यायेन परस्परापेक्षद्रव्या10 र्थिकपर्यायार्थिकयोः प्ररूपणा सम्भविनी न निरपेक्षयोरिति वा प्रदर्शनायाह दव्वट्टियस्स आया बंधइ कम्मं फलं च वेएइ। बीयस्स भावमेत्तं ण कुणइ ण य कोइ वेएइ ॥ ५१ ।। द्रव्यार्थिकस्याऽऽत्मा बध्नाति कर्मफलश्च वेदयत्ते । द्वितीयस्य भावमात्रं न करोति न च कश्चिद्वेदयते ॥ छाया ॥ 15 द्रव्यार्थिकेति, एक आत्मा स्थायी ज्ञानादिप्रतिबंधक कर्म स्वीकरोति तत्कार्यस्व स एव भुक्ते इति द्रव्यार्थिकप्ररूपणा । नैवात्मा स्थाय्यस्ति किन्तु विज्ञानमात्रं न करोति न च कश्चिद्वेदयते, उत्पत्तिक्षणानन्तरध्वंसिनः कर्त्तत्वानुभवितृत्वायोगादिति प्ररूपणा पर्यायार्थिकस्य ॥ ५१ ॥ तथेयमपि नययोरनयोस्तथाभूतयोः प्ररूपणेत्याह-- दव्ववियस्स जो चेव कुणइ सो चेव वेयए णियमा । अण्णो करेइ अण्णो परिभुंजइ पजवणयस्स ॥ ५२ ॥ द्रव्यार्थिकस्य य एव करोति स एव वेदयते नियमात् । अन्यः करोत्यन्यः परिभुङ्क्ते पर्यवनयस्य ॥ छाया | द्रव्याथिकस्येति, स्पष्टम् , पूर्वगाथायामुत्पत्तिसमनन्तरध्वस्तेन करणं भोगो वा न 25 सम्भवतीत्युक्तमत्र तु उत्पत्तिक्षण एव कर्ता तदनन्तरक्षणश्च भोक्तेत्युच्यतेऽतो न पुनरुक्तता, 'भूतिर्येषां क्रिया सैव कारकं सैव वोच्यत' इति परैरप्युक्तत्वात् ॥ ५२ ॥ असंयुक्तयोरनयोरियं न स्वसमयप्ररूपणा, या तु स्वसमयप्ररूपणा 'तामाह-- 20 "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy