________________
सोपामम् 1
सप्तमननिरूपणम् । तथा च जातिकुलरूपलक्षणसंज्ञासम्बन्धैरधिगतस्य एकात्मकस्य बालादिभावैदृष्टैविंगतस्य उत्पादविगमात्मकस्य तस्य यथा सम्बन्धः भेदाभेदपरिणतिरूपः, बाह्याध्यक्षेण भेदाभेदात्मकत्वप्रतिपत्तेः तथेति अग्रे सम्बन्धः ॥ ४५ ॥
आध्यात्मिकाध्यक्षतोऽपि तथा प्रतीतेस्तद्वस्तु तथाविधमेवेत्याहतेहिं अतीताणागयदोसगुणदुगंछणब्भुवगमेहिं । तह बंधमोक्खसुहदुक्खपत्थणा होइ जीवस्स ।। ४६ ॥ ताभ्यामतीतानागतदोषगुणजुगुप्सनाभ्युपगमाभ्याम् ।
तथा वन्धमोक्षसुखदुःखप्रार्थना भवति जीवस्य ॥ छाया ॥ ताभ्यामिति, यथा ताभ्यामतीतानागतदोषगुणजुगुप्साऽभ्युपगमाभ्यां भेदाभेदास्मकस्य पुरुषत्वस्य सिद्धिः तथा दार्टान्ति केऽपि बन्धमोक्षसुखदुःखप्रार्थना तत्साधनो- 10 पादानपरित्यागद्वारेण भेदाभेदात्मकस्यैव जीवद्रव्यस्य भवति बालाद्यात्मकपुरुषद्रव्यवत् , न च जीवस्य पूर्वोत्तरभवानुभवितुरभावाद्वन्धमोक्षभावस्याभावः, उत्पादव्ययध्रौव्यात्मकस्य तस्यानाद्यनन्तस्योक्तत्वात् । तथाहि मरणचित्तं भाव्युत्पादस्थित्यात्मकम् , मरणचित्त. स्वात् जीवदवस्थाविनाशचित्तवत् , तथा जन्मादौ चित्तप्रादुर्भावोऽतीतचित्तस्थितिविनाशास्मकः, चित्तप्रादुर्भावत्वात् , मध्यमावस्थाचित्तप्रादुर्भाववत्, अन्यथा तस्याप्यभाव. 15 प्रसक्तिः, न चेष्टापत्तिः, हर्षविषादाद्यने कविवर्तात्मकस्यानन्यवेद्यस्यान्तर्मुखाकारतया स्वसंवेदनाध्यक्षतः शरीरवैलक्षण्येनानुभूतेः, तथापि तस्याभावे बहिर्मुखाकारतया प्रतिभासमानशरीरादेरप्यभावः स्यात् । न वैकान्तेनात्मनो नित्यत्वे नूतनबुद्धिशरीरेन्द्रियैर्योगवियोगलक्षणे जन्ममरणे अपि संभवतः कुतो बन्धमोक्षप्रसक्तिः, सर्वात्मनाऽविचलितरूपत्वात् । नाप्येकान्तत उत्पादविनाशात्म के चित्ते इहलोकपरलोकव्यवस्था बन्धादिव्यवस्था वा 20 संभवति, ऐहिकशरीरपरित्यागेन ह्यामुष्मिकशरीरोपादानमेकस्य परलोकः, पूर्वग्रामपरित्यागावाप्तवामान्तरैकपुरुषवत् न च दृष्टान्तेऽप्येकत्वमसिद्धमिति वाच्यम् , उभयावस्थयोस्तस्यै. कत्वेन प्रतिपत्तेः । न चेयं मिथ्या, बांधकाभावात् , विरुद्धधर्मसंसर्गादेर्बाधकस्याध्यक्षबाधादिना निरस्तत्वात् , न च पूर्वावस्थात्याग एकस्योत्तरावस्थोपादानमन्तरेण दृष्टः, घटाकार. विनाशवन्मृद्रव्यस्य कपालाकारोपादनमन्तरेण तस्यादर्शनात् । न च कपालोपादानमन्तरेण ॐ घटविनाश एव न सिद्धः, घटकपालव्यतिरेकेणापरस्य नाशस्याप्रतीतेरिति वकव्यम् ; कपालोत्पादस्यैव कथञ्चिद्धटविनाशात्मकतया प्रतिपत्तेः, अत एव सहेतुकत्वं बिनाशस्य, कपालोत्पादस्य सहेतुकत्वात् । न च कपालानां केवलं भावरूपत्वम् , तथा सति घटस्या
"Aho Shrutgyanam"