________________
घोपानम् ]
पर्यायार्थिकस्वरूपम् । भोक्तत्वाभ्युपगमो विरुद्ध आसज्येत, अभोक्त्रवस्थाव्यतिरिक्तत्वाद्भोक्त्रवस्थायाः । कर्तत्वाभावाच्च न युक्तं भोक्तत्वमपि, न ह्यकृतस्य कर्मणः फलोपभोगः कस्यचित् , अकृताभ्यागमप्रसङ्गात् । न च प्रकृतिः पुरुषस्य कर्माकर्तुरप्यभिलषितमर्थमुपनयत्यतोऽसौ भोक्तेति वाच्यम् , अस्या अप्यचेतनत्वाच्छुभाशुभकर्मकर्तृत्वासम्भवात् । न च पङ्ग्वन्धयोः परस्परसम्बन्धात् प्रवृत्तिरिव चेतनसम्बन्धान्महदादिकं चेतनावदिव कार्येष्वध्यवसायं करोतीति 5 वाच्यम् , यद्यकृतस्यापि कर्मणः फलमभिलषितं प्रकृतिरुपनयति तदा सर्वदा सर्वस्य पुंसोऽ भिलषितार्थसिद्धिः स्यात्, प्रकृत्योपनीतमर्थ प्रति तस्य भोक्तत्वासम्भवाचाविकारित्वात् अन्यथा नित्यत्वहानिप्रसङ्गः, अतादवस्थ्यस्यानित्यत्वलक्षणत्वात् । प्रधानं यदि पुरुषदि. दृक्षामधिगच्छति तर्हि भोक्तृत्वमपि तस्य स्यात् , करणज्ञस्य भुजिक्रियावेदकत्वाविरोधात् , यदि नाधिगच्छति तदा जडत्वात् पुरुषार्थं प्रति प्रवृत्तिर्न स्यात् , अतो न पङ्ग्वन्धदृष्टा- 10 न्तात्प्रवृत्तिः, तयोश्चेतनत्वात्, परस्परविवक्षावेत्तृत्वात् । परार्थाश्चक्षुरादय इति साधनमप्ययुक्तम् , किमत्र आधेयातिशयः परः साध्यत्वेनाभिप्रेतः, अविकार्यनाधेयातिशयो वा सामान्यतश्चक्षुरादीनां पारार्थ्यमात्रं वा, नाद्यः, सिद्धसाध्यताप्रसङ्गात् , अस्माभिरपि वि. ज्ञानोपकारित्वेन चक्षुरादीनामभ्युपगमात् । न द्वितीयो हेतोविरुद्धताप्रसङ्गात् विकार्युपकारित्वेन चक्षुरादीनां दृष्टान्ते हेतोयाप्तत्वप्रतीतेः, अविकारिणि ह्यतिशयस्याधातुमशक्य. 15 त्वाच्छयनासनादयोऽनित्यस्यैवोपकारिणो युक्ता न नित्यस्येति कथं न हेतोविरुद्धता । न तृतीयः, चक्षुरादीनां विज्ञानोपकारितयेष्टत्वेन सिद्धसाधनात् , तस्मान्नाशुद्धद्रव्यास्तिकमतावलम्बिसांख्यदर्शनपरिकल्पितपदार्थसिद्धिरिति पर्यायास्तिकमतम् ॥
अथ संक्षेपतो नयस्वरूपम् , नैगमसङ्ग्रहव्यवहारास्त्रयो नयाः शुद्ध्यशुद्धिभ्यां द्रव्यास्तिकान्तर्गताः, शेषाश्च ऋजुसूत्रादयः शुद्धितारतम्येन पर्यायमाश्रिताः, तत्र सङ्ग्रह- 20 मतमुक्तमेव, येषान्तु मतेन नैगमनयस्य सद्भावस्तैस्तस्य स्वरूपमेवं वर्णितम् , राश्यन्तरोपलब्धं नित्यत्वमनित्यत्वञ्च नयतीति निगमव्यवस्थाभ्युपगमपरो नैगमनयः निगमो हि नित्यानित्यसदसत्कृतकाकृतकस्वरूपेषु भावेष्वपास्तसार्यस्वभावः सर्वथैव धर्मधर्मिभेदेन सम्पद्यत इति । स पुनर्नैगमोऽनेकधा व्यवस्थितः, प्रतिपत्रभिप्रायवशान्नयव्यवस्थानात् , प्रतिपत्तारश्च नानाभिप्रायाः, यतः केचिदाहुः पुरुष एवेदं सर्वमित्यादि, पुरुषोऽप्येक- 25 स्वनानात्वभेदाविधा कैश्विदभ्युपगतः, नानात्वेऽपि तस्य कर्तृत्वाकर्तृत्वभेदः परैः, कर्तृत्वेऽपि सर्वगतेतरभेदः, असर्वगतत्वेऽपि शरीरव्याप्त्यव्याप्तिभ्यां भेदः, अव्यापित्वेऽपि मूर्तेतरभेदः, अपरैस्तु प्रधानकारणिकं जगदभ्युपगतम् , तत्रापि सेश्वरनिरीश्वरभेदा दाभ्युपगमः, अन्यैस्तु परमाणुप्रभवत्वं जगतोऽभ्युपगतम् , तत्रापि सेश्वरनिरीश्वरभेदाभेदः,
"Aho Shrutgyanam"