SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ : ९२: सम्मतितत्वसोपाने [ त्रयोदशम् इति साधयामः । वैश्वरूप्यस्याविभागाचास्ति प्रधानम् , वैश्वरूप्यमिति त्रयो लोका उच्यन्ते, एते हि प्रलयकाले क्वचिदविभागं गच्छन्ति, तथा हि पञ्चभूतानि पञ्चसु तन्मात्रेध्वविभागं गच्छन्ति, तन्मात्राणीन्द्रियाणि चाहङ्कारे, अहङ्कारस्तु बुद्धौ, बुद्धिः प्रधाने, तदेवं प्रलयकाले त्रयो लोका अविभागं गच्छन्ति, अविभागोऽविवेकः, यथा क्षीरावस्थायामन्यत् 5 क्षीरमन्यद्दधीति विवेको न शक्यतेऽभिधातुं तथा प्रलयकाले इदं व्यक्तमिदमव्यक्तमिति विवेकोऽशक्यक्रिय इति मन्यामहे अस्ति प्रधानं यत्र महदा दिलिङ्गमविभागं गच्छतीति । सत्त्वरजस्तमोलक्षणं सामान्यमेकमचेतनं द्रव्यं अनेकं च चेतनं द्रव्यमर्थोऽस्तीति द्रव्यार्थिकः, अशुद्धो व्यवहारनयाभिप्रेतार्थाभ्युपगमस्वरूपो बोद्धव्यः । वक्ष्यति चाचार्यः 'जं काविलं दरिसणं एयं दधट्टियम्स वत्तवं' इति ( गा० १४५)। नैगमनयाभिप्रायस्तु 10 द्रव्यास्तिकः शुद्धाशुद्धतयाऽऽचार्येण न प्रदर्शित एव, नैगमस्य सामान्यग्राहिणः संग्रहेऽन्त. भूतत्वात् , विशेषग्राहिणश्च व्यवहारे इति नैगमाभावा दिति द्रव्यप्रतिपादकनयप्रत्ययराशिमूलव्याकरणी द्रव्यास्तिकः शुद्धाशुद्धतया व्यवस्थित इति ।। इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजयकमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरेण तत्पट्टधरेण विजयलब्धिसूरिणा सङ्कलितस्य सम्मतितत्त्वसोपानस्य नयद्वयघट कद्रव्यार्थिकस्वरूपनिरूपणं नाम द्वादशं सोपानम् ॥ 10 नयद्वयघटकपर्यायार्थिकस्वरूपम् । अथ ऋजुसूत्रशब्दसमभिरूद्वैवम्भूतनयप्रत्ययराशिमूलव्याकरणी पर्यायार्थिकश्शुद्धा20 शुद्धतया व्यवस्थितः पर्यायलक्षणविषयव्यवस्थापनपरो द्रव्यार्थिकनयाभिप्रेतवस्तुव्यवस्था पनयुक्ति प्रतिक्षिपति, तथाहि सर्वमेकं सदविशेषादिति द्रव्यार्थिकेन भेदस्य प्रमाणबाधितस्वात् किमेकमुच्यते, किं वाऽभेदे प्रमाणसद्भावात् । न प्रथमः, प्रत्यक्षादिप्रमाणस्य भेद. पोषकतया तद्बाधितुमप्रवृत्तः, न हि भेदं विना प्रमाणेतरव्यवस्था सम्भवति, प्रमाणञ्च प्रत्यक्षानुमानादिभेदेन भिन्नं सद्भेदसाधकमेव, न तु तद्बाधकम् , चक्षुर्व्यापारसमनन्त25 रभाविप्रत्यक्षं हि वस्तुभेदमधिगच्छदुत्पद्यते, भाव एव च भेदः, अतस्तमधिगच्छता प्रत्यक्षेण भेदोऽप्यधिगत एव । न च भेदः कल्पनाविषयः, इदमस्माद्यावृत्तमिति तस्य व्यवस्थापनात्, अभेदस्तु निरपेक्षप्रत्यक्षज्ञानसमधिगम्य इति वाच्यम् , अभेदस्यैव कल्पनाज्ञानविषयत्वात् , इदमनेन समानमित्यनुगतार्थप्रतिभासस्यैव परापेक्षस्य कल्पनाज्ञानं विमाऽनुपपत्तेः । भेदस्तु परस्परासंमिश्रवस्तुबल सम्भूतेन तदाकारसंवेदनेन विज्ञेयः, "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy