________________
[ दशमम्
प्रथमाक्षरसन्निपात वेलायामध्यनुभूयते, संहृतसकलविकल्पावस्थायामपि स्थिरस्थूलरूपस्यैव स्तम्भादेर्बहिग्रीह्याकारतां दधानस्य प्रतिभासः, न तु निरंशक्षणिकानेकपरमाणुप्रतिभासः, अश्वादिविकल्पकालेऽपि पुरोऽवस्थितस्य गवादेस्तथाभूतस्यैवानुभवविषयतया प्रतिभासः | तस्मादभिलापसंसर्गयोग्य स्थिरस्थूलार्थप्रतिभासं ज्ञानं प्रथमाश्वसन्निपातोद्भवं सविकल्पकं 5 तथाभूतार्थव्यवस्थापक सभ्युपगन्तव्यम्, अन्यथा सकलव्यवहारोच्छेदप्रसङ्गः । अतः साधारणासाधारणरूपे वस्तुनि प्रमाणप्रवृत्तिः नासाधारणात्मनि, निर्विकल्पकस्याप्यसाधारणात्मनि विषये विकल्पानुत्पादकत्वादग्राहकत्वमेव, ग्राहकत्वे तु क्षणिकत्वानुमानस्याप्रामाण्यमसक्तिः, तस्मात्स्वस्वभावव्यवस्थितेरिति हेतोर्भेदेन सर्वपदार्थानां प्रत्यक्षेण व्याप्तिग्रहणाभावान्न सर्वभावानां सर्वतो भेदः, तस्मात्सदृशपरिणामलक्षणसामान्यस्यावाधितप्रत्ययविषयत्वेन 10 सत्त्वादसिद्धः स्वस्वभावव्यवस्थितेरिति हेतुरिति स्थितम् । यदुक्तं सर्वे शब्दा न परमार्थतो वस्त्वभिधायकाः तेषु परमार्थतः कृतसमयत्वाभावादित्यादि तदपि न सम्यक्, सामान्यविशेषात्मकस्य वस्तुनः पारमार्थिकस्य सङ्केतव्यवहारकालव्यापिनः प्रमाणसिद्धत्वात्, यद्यपि शाबयादयो व्यक्तिविशेषा नानुयन्ति परस्परं तथापि समानपरिणामस्वरूपतया क्षयोपशमविशेषाविर्भूतोहाख्यज्ञाने तथैव प्रतिभासमानाः सङ्केतविषयतामुपयान्त्येव, अगोव्यावृत्तेषु 15 सङ्केतव्यवहारकालव्याप्तिमत्सु भावेष्वगोशब्दव्यावृत्तगोशब्दस्वरूपस्य सङ्केतितत्वात्, देशान्तरे कालान्तरे च ततश्शब्दात्तदर्थप्रतिपत्तिरर्थाव्यभिचारिण्युपजायत एव । एकत्वन्तु शब्दार्थयोः शाब्दप्रतिपत्तावनङ्गमेव, तदन्तरेणापि सङ्केतस्य कर्तुं शक्यत्वात् सार्थकत्वाच्च ।
दयानन्तरमेव विनाशिषु भावेषूत्पन्नेष्वनुत्पन्नेषु वा न समयः कर्त्तुं शक्यत इति वाच्यम्, एकान्तेनोदयानन्तरं विनाशित्वस्य भावेष्वसिद्धेः । न च पर्यन्ते वस्तूनां क्षयदर्शनात्ततः 20 प्रागपि तत्स्वभावत्वसिद्धिरिति वाच्यम्, आदौ स्थितिदर्शनादन्तेऽपि तत्स्वभावतायाः सिद्धिप्रसङ्गात् । स्थिरत्वस्यान्तेऽनुपलम्भान्न तत्सिद्धिरिति तु वचः क्षणक्षयस्यादावनुपलक्षणान क्षणिकतासिद्धिरित्यनेन प्रतिहतम्, आदौ क्षणिकत्वानुपलम्भः सदृशापरापरोत्पत्तिविप्रलम्भादिति चेन्न क्षणिकत्वस्यै वा सिद्ध्या तथाभिधानासम्भवात् न च कृतकत्वात्तत्सिद्धिः, साध्यसाधनयोर्भेदासिद्ध्या ततस्तत्साधनायोगात्, न हि स्वात्मना स्वात्मनः सिद्धिः । न च तयोर्व्यां 25 वृत्तिभेदाद्भेद इति साम्प्रतम्, कुतो हि तयोर्भेदः, किं स्वतः किं वा व्यवच्छेद्यभेदात्, उतारोपात्, आहोस्वित् बुद्धिप्रतिभासभेदात्, न प्रथमः, स्वतो भेदे भेदस्य वस्तुत्वापत्तेः, न द्वितीयः, अनित्य
७० :
सम्मतितश्वसोपाने
१ इत्थंभूतः सर्वः शब्द इत्थंभूतस्य सर्वार्थस्य वाचकः इत्थम्भूतस्सर्वोऽर्थ इत्थम्भूतस्य सर्वस्य शब्दस्य वाच्य इत्येवम्भूता त्तर्कात्स्वविषयज्ञानावरणवीर्यान्तरायक्षयोपशम विशेषसहकृतात् सामान्यविशेषास्मकेऽर्थे सामान्यविशेषात्मकस्य शब्दस्य सङ्केतः प्रतिपद्यत इति भावः ॥
" Aho Shrutgyanam"