SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ .३२६ ] प्रबन्धपश्चशती अरक्षितं तिष्ठति दैवरक्षित, सुरक्षितं दैवहतं विनश्यति । जीवत्यनाथोपि वने विसर्जितः कृतप्रयत्नोऽपि गृहे न जीवति ॥५॥ ततः तं वृषभं स्वगृहे निनाय श्रेष्ठी । इति कर्मणि वृषभसम्बन्धः ॥५८३॥ [ 584 ] अथ परवंचने आषाढभूतिसम्बन्धः । देवपुरे देवशर्मा परिबाट धनी वसति स्म । स च कस्यापि न विश्वसिति घनगमनभयात् । एकदा धूतं आषाढभूतिस्तत्रागतो मिलति स्म । तस्य प्राह-संसारोऽसारो मया दृष्टस्तेनाई कस्यापि तापसादेः शिष्यो भविष्यामि । जीवितं तु तृणाग्नितुल्यं, लक्ष्मीश्चपला, संयोगास्तु पक्षिण इव । ततो देवशर्मणा वैरागी मत्वा दीक्षितः स्वशिष्यवृतः। परं द्रव्यगमनभयात्तं मढी 10 द्वारे शापयति रात्रौ । क्रमावाषाढभूतिना तम्य पार्श्वे धनभृता वासनिका नाता, लातुं तां ववाग्छ। ___ एकदा देवशर्माणमभ्येस्य यजमानः प्राह-अहं चन्द्रपुरे बहून् जनान् जेमयिष्यामि धनं च दास्यामि तेभ्यः । अतस्तत्र पादावधारयध्वम् । ततस्तद्वयो मानितं । अन्यदा देवशम् शिष्ययुतश्चचाल । तां वासनिका वखर्वेष्टयित्वा चलति । अत्रान्तरे नदी समागता । देवशर्मा जगौ इदं शंबलं विद्यते तेन त्वं गृहाण, अत्र तिष्ठाहं मलोत्सर्ग कृत्वा समेष्यामि शीघ्रं । देवशमणि 16 गते आषाढभूतिस्ता लात्वा नष्टः । देवशर्मा तु हुडयोयुद्धं विलोकयन् यावत्तत्रागतः तावत्तं शिध्यमष्ठा दुःखं चक्रे, मया मौढयादीदृशः शिष्यः कृतः । इति परवंचने आषाढभूतिसम्बन्धः ॥५८४॥ [585 ] अथ लौल्ये जंबूकसम्बन्धः । एकस्मिन् नदीतटे हुडुयुगं युद्धं कतु लग्नं । अथ रोषेण हुडुयुगं दूरमपमृत्यापसृत्य भूयोऽपि 20 समेत्य ललाटपट्टाभ्यां मियः प्रहरति स्म । तयोर्ललाटयो रुधिरं निर्गच्छदभूत् । इतस्तत्रैको जम्बूकः समागात् । स च लौल्याद् रुधिरधारा पतन्तीं वीक्ष्य द्वयोरन्तरे प्रविष्य रुधिरं पिबति स्म । अथ तयोः शिरःसंपाते मध्यगतो जंबूको मृतः । अतो द्वयोः कलिं कुर्वाणयोरन्तरे न प्रवेष्टव्यं जंबूकवत् । इति लौल्ये जंबूकसम्बन्धः ॥५८५॥ [586 ] अथ दमे कौलिकसम्बन्धः । 26 वर्द्धनपुरे एकः कौलिको लक्ष्मीवान वसति । तस्य मित्रं रथकारोऽस्ति विशः। एकदा कौलिको देवतायसने गतः । तत्रोत्सवं कृत्वा पश्चादागच्छन् वातायनस्था राजकुमारी सुरूपा दृष्ट्रा मोहितः । यतः यत्रोदकं तत्र पतन्ति हंसा, यत्रामिषं तत्र पतन्ति गृध्राः । यत्रार्थिनस्तत्र रमन्ति वेश्या, यत्राकृतिस्तत्र गुणा वसन्ति ॥१॥ "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy