SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽधिकारः [ ३२१ अनादरो' विलम्बश्च,२ वैमुख्यं विप्रियं वचः । पश्चात्तापश्च' दातुः स्यात, दानदूषणपञ्चकम् ॥१॥ भीमोऽवग-कथं दास्यामि । आनन्दाणि' रोमाञ्च,२ बहुमान प्रियं वचः । तथानुमोदना५ पात्रे, दानभूषणपञ्चकम् ॥२॥ पअपुरे चन्द्रयक्षान्तिके गत्वा दानफलं पृच्छ । ततो भीमस्तत्र गतः विनयपूर्व दानफलं तस्य पार्श्वेऽप्राक्षीत् । यक्षोऽवग-महानन्दपुरे अहं पूर्वभवे ककशवचो जल्पन् दानमदा तेनात्र भवे मम मुखं शूकराकारं जातम् । देहं तु काञ्चनतुल्यम् । यतः-- स्वर्णदानं रत्नदानं मुखेनैव सुभाषितम् । तेनेयं काञ्चनीकाया, तेनेदं शौकरं मुखम् ॥३॥ 10 ततो मीमः स्वपुरेऽभ्येत्य पञ्चदूषणवर्ज पञ्चभूषणयुक्तं दानं ददौ । ततो राजाऽवगभ्रातरेवं दानं दत्तं सफलं भवति । इति दानभूषणपश्चकादिभीमसम्बन्धः ॥५७४॥ [575 | अथ सद्यस्कधीविषये वैष्णवीतापसीसम्बन्धः । एकस्मिन् प्रामे एका मठवासिका नारायणप्रासादे तिष्ठन्ती वर्षाकाले रात्रौ छन्नं चूरिमं भक्षयन्ती लोकाने जल्पति-अहं मासक्षपणं कुर्वाणाऽस्मि । ततो लोका विशेषाद् वस्त्रदानात् 16 भक्ति कुर्वन्ति । वर्षाकालात्यये उज्जागरिते हरौ विशेषतो धनं ददन्ते । एकदा निशि चूरिमं भक्षयन्तीं दृष्ट्वा नारायणस्तापसी प्रति प्राह-रे रण्डे ! रात्रौ चू (चौ) रिमं भक्षयसि, दिवा वक्षि लोकाने अहं मासक्षपणं करोमि । ततः सा उत्पन्नमतिः प्राह कृष्णं प्रति त्वमपि मम तुल्योऽसि । लोकाने बक्षिः वं अहं वर्षाचतुर्मास्यां स्वपिमि रात्रौ तु लोकचरितानि विलोकयसि । अतोऽहं यारशी तादृशस्त्वम् । ततः कृष्णो मौनं चक्रे । इयं मां 20 विगोपयिष्यति । इति सद्यस्कधीविषये वैष्णवीतापसीसम्बन्धः ॥५७५॥ [576 ] अथ स्पर्द्धयां काक-हंससम्बन्धः । हंसेन समं काकः स्पर्द्धा दधान उठ्यति व्योम्नि । ततो द्वावपि समुद्रतटे गतौ । हंसो मावद् वाीिमध्यस्थद्वीपे यियासुरभूत् तदा काकोपि चिचलिषुरजनि । हंसेनोक्तं-त्वं तिष्ठ । त्वया नोत्तीर्यते । काकोऽवग-त्वं यथा व्योम्नि गच्छसि तथाई न गच्छामि। ततो यदा हंस. 25 श्वचालान्धौ तदा काकोपि च कियति वारिधौ पश्चान्मुक्ते काकः खिन्नोऽधोमुख ऊध्र्वपादो जातः। तदा हंसेनोक्तम् "ज जाणीइ रे ते कीजइ कागा, तलि मूडी नइउं पागा ।" "Aho Shrutgyanam'
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy