SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽधिकारः [२७९ [ 505] अथ दाने आपदर्थे धनं रक्षेदित्यादि सम्बन्धः । भोजभूपः श्रियाश्चंचलत्वं वीक्ष्य यदा बहुदानं ददन्नभूत् सदा रोहितो मन्त्री दध्यो । राना कोशं धनरिक्तं स्तोक दिनैः करिष्यति अत उपायेन वार्यते । ततचित्रशाला भारपट्टे रहः पदं लिलेख __"आपदर्थे धनं रक्षेत्"-प्रभाते भूपः पदं दृष्ट्वा मंत्रिलिखितं ज्ञात्वा तत्रैव लिलि[ले]ख- 5 "भाग्यभाजः क्व आपदादिः राज्ञा द्वितीयं पदं लिखितं ज्ञात्वौ तृतीयपदं तत्रैव पुनमन्त्रिणालिखितं-"देवं हि कुप्यति कापि"-राजा तत्पदमपसार्य लिलेख-"संचितोऽपि विनश्यति" । ततो राज्ञो मनो दाने संसक्तं ज्ञात्वा मंत्री क्षमयामास [उक्तं च त्वं भाग्यवानसि यत एवं विधं दाने मनस्तव । ततो राजाहि] रुष्टो दानं दत्ते । इति दाने आपदर्थे धनं रक्षेदित्योदिसम्बन्धः ॥५०॥ 10 [506 ] अथ नष्टं नष्टं नष्टं नष्टमिति सम्बन्धः । एकदा भोजभूपसभायाः समीपस्थवटशाखायामुपविश्य शुकः प्राह-"नष्टं नष्टं नष्टं नष्टं" अस्य पदस्यार्थः सर्वेषां पण्डितानां पार्श्व भूपेन पृष्टः केनापि न झातो विलोकितोऽपि भृशं । तच विद्वत् कुटुंबेनार्थः प्रोक्तः इति । प्रथमं द्विजः प्राह “(१) कुभोजनात् दिनं नष्टं" । पत्नी प्राह "(२) भार्या नष्टा कुशीलिनी" । पुत्रः प्राह "(३) कुपुत्रेण कुलं नष्टं"। पुत्रपत्नी प्राह 15 "(४) तन्नष्टं यन्न दीयते ।" ततो राजा विद्वद् कुटुम्बाय लक्षं ददौ । इति नष्टं नष्टं नष्टं नष्टमितिसम्बन्धः ॥५०५॥ ___ [507] अथ भोजकृतदानार्थसम्बन्धः । दानेन सर्व वशीभवति इति-ज्ञापनाय भोजनरेन्द्रोऽन्यदा आर्याचतुष्कं रचयामास। इदमंतरमपकृतये, प्रकृतिचला यावदस्ति संपदियं । 20 विपदि नियतोदितायां, पुनरुपकर्तुं कुतोऽवसरः ॥१॥ निजकरनिकरसमृद्धथा धवलय भुवनानि पार्वणशशाङ्क । सुचिरं हंत न सहते हतविधिरिह सुस्थितं कमपि ॥२॥ अयमवसरः सरस्ते सलिलैरुपकर्तुमर्थिनामनिशं । इदमपि सुलभमंभो भवति पुरा जलधराभ्युदये ॥३॥ 35 १. नियतोदयायो । 20 "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy