SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ २६० ] प्रबन्धपश्चशती "कार नगरे चतुर्द्वारं निप्रासाद शिवप्रासादादुखं कारय, तत्र पार्श्वप्रतिमा प्रतिष्ठापय” ततो राजा सिद्धसेनप्रोक्तमचीकरत् । 10 19 20 25 इति ॐकारनगरप्रासाद निष्पत्तिसम्बन्धः || ४७७ ॥ [478] अथ नवीन संवत्सरप्रवर्त्तने विक्रमार्कसम्बन्धः । एकदा सिद्धसेनदिवाकरः श्रीविक्रमादित्यभूपस्याग्रे दानधर्मोपदेशं ददावेव — श्रीनाय जिनेश्वरी धनभवे श्रेयः श्रियामाश्रयः, श्रेयांसः स च मूलदेवनृपतिः सा नन्दना चन्दना । धन्योऽयं कृतपुण्यकः शुभमनाः श्रीशालिभद्रादयः, सर्वेऽप्युत्तमदानदानविधिना जाता जगद्विश्रुताः ॥ १ ॥ कर्णस्त्वचं शिबिर्मांस, जीवं जीमूतवाहनः । ददौ दधीचिरस्थीनि, किमदेयं महात्मनाम् ||२|| न कयं दीद्धरणं, न कयं साहम्मिआण वच्छलं । हिययमि वीयरायो, न धारिओ हारिओ जम्मो ||३|| तीर्थङ्कराः पृथिवीमनृणी कृत्वा दीक्षां गृहन्ति, तथाहि--- एगा हिरण्णकोडि, अडेवय अणूणगा सयसहसा । सूरोदय माईअं, दिज्जइ जापाउरासाओ ॥ ४ ॥ तिन्नेव य कोडिसया, अट्ठासीअं च हुंति कोडीओ । असीई सयसहस्सा, एयं संवच्छरे दिन्नं ॥५॥ अधः क्षिपन्ति कृपणा, वित्तं तत्र यियासवः । सन्तस्तु गुरुचेत्यादौ, तदुच्चैः फलकांङ्क्षिणः || ६ || इत्यादि व्याख्यानं श्रुत्वा विक्रमादित्यराजा जगौ - भगवन् । मम गृहे स्वर्णपुरुषद्वयं विद्यते । ततो दिने दिने बहु हेम लभ्यते । तेन मम पृथिवीमन्नृणी कर्त्तुमिच्छाऽस्ति । गुरुभिः प्रोक्तं-न भाग्यं विना धर्मं कर्त्तुं मनोरथो भवति सम्पूर्णो भवति च । यतः भवन्ति भूरिभिर्भाग्येर्धर्मकर्म मनोरथाः । यत्पुनस्ते फलन्त्येव, तत्सुवर्णस्य सौरभम् ||७|| "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy