SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽधिकारः ६ २२३ अभयतु स्वामी । सिंह आर-बाई, परह मझयामि । तवैव प्रसादीकृतः । सिंहे गते व्याघ्र आगतः तस्य संमुखं गत्वाह-मामक मातुल ! कथमत्र भवान् मृत्युमुखे प्रविष्टः येनैष सिंहेन इतः । स मां रक्षपालं मुक्या नामार्थ नद्यां मतः । मया किर्याघ्रं वनं कार्य मित्युक्तमपि तेन सिंहेन एतद्वच्छ्रुत्वा भवाद्वयानो नष्टः । ., इतश्च चित्रक आयातस्तस्यापि तदेवोक्तम्- अहूं सिंहेन तद्रमार्थ मुक्तोऽस्मि तथापि त्वं 5 किचि[भ]क्षयित्वा शीघ्रं गच्छान्यथा तवप्राण संशयः इत्युक्ते सति चित्रकोऽपि भयभीतः पलायिष्ट। अथ शृगपल आगतः तस्मात्तुल्यं दृष्ट्वा युद्धेन निराकृतः । अत उत्तम प्रणि । इति सबलनिर्बलसम्बन्धः ॥४१४॥ [416] अथ अपरीक्ष्य न कर्त्तव्यं० इति विषये नकुलसंबंधः । अपरीच्य न कर्त्तव्यं, कर्तव्यं सुपरीक्षितम् ।। 10 पश्चाद्भवति संतापो, ब्राह्मण्यां बकुलं [ब्राह्मण्या नकुले ] यथा ॥१॥ कस्मिंश्चिन्नगरे देवशर्मा विप्रस्तस्य भार्या रूपिणी दारकद्वयं प्रसूता । एकदारकमपरं नकुलं च । दारकवनकुलमपि स्तन्यादिना पालयति । अथ तदा कदाचिद्ब्राह्मणायादिष्टं त्वया गृह रक्षणीयमहं जलार्थ यामि इत्युक्त्वा बालं शय्यायर्या, शाययित्वा जलाय गता । अत्रान्तरे स विप्रः कणादानार्थ ग्राममध्ये गतः। अथ यत्रास्ति बालकस्तत्र सर्पमायान्तं 15 दृष्ट्वा नकुलेन चिन्तितमहो अयं सर्पो मदीयमनुजं भक्षयिष्यति ततश्चैनं निवारयामि इति विचिन्त्य तेन सह युद्धं विधाय सर्प मारयित्वा हर्षितो रुधिरप्लावितमुखो जननी निवेदयितुं संमुखश्वलितः । ततस्तया तं तादृशं दृष्ट्वा पुत्रमारकोऽयमिति विचिन्त्य तया स नकुलो हतः। पश्चाद्गृहमागतया तं पुत्रं जीवमानं तत्र च सर्प मारितं दृष्ट्वा पश्चाच्छोकाकुला बभूव । अतः 'अपरीक्ष्य न कर्त्तव्यम्०' इति सम्बन्धे-नकुलसंबंध; ॥४१५॥ 20 [416] अथ बुद्धिहीनतायां सिंहकारकनृसम्बन्धः । वरं बुद्धिर्न सा विद्या, विद्यातो बुद्धिरुत्तमा । बुद्धिहीना विनश्यन्ति, यथा ते सिंहकारकाः ॥१॥ चत्वारः पुरुषा मार्ग चलिताः । अटवीं गताश्च ते चत्वारः परस्परं वि( वादं ]कुर्वन्ति स्मेत्यम्एकः प्राह-विद्याधिका, अपरः प्राह-बुद्धिरधिका विद्यातः । त्रयः शास्त्रज्ञाः । एको मूर्खः परं 26 बुद्धिमान् । तैर्मृतप्रायसिंहो दृष्टः । शास्त्रज्ञाः कथयन्ति स्म-अयं मांसादिना सज्जीक्रियते । बुद्धिमता उक्तं-अस्मिन् सज्जीकृतऽनर्थो भविष्यति तेन बुद्धिमंता बहुशो वारितैरपि त्रिभिरस्थिमांसादिना सिंहः सजीकृतः, तेन च त्रयोऽपि मारिताः बुद्धिमान् पूर्वमेक नंवा गतः । अतो बरं बुद्धिन० । इति चुद्धिहीनतायां सिंहकारकतृसंबंधः ॥४१६॥ "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy