SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ १५६ ] प्रबन्धपश्चशती [264] अथ दशधा दानकथा । कमलपुरे भीमश्रेष्ठिना गुरुपार्श्वे प्रोक्तं कति दानानि ! गुरणोदितानि दश दानानि । तथाहि दप' संगहरे भय कारणिय लजा५ गारव अधम्म धम्मेय । काहीइ कयमाणेणं, दाणमेयं भवे दसहा ॥१॥ सरोगर भिक्षाचरादीनार दुर्जनाना३ पुत्रादिवियोग लोकलज्जया भट्टचारणानां५ यत्नार्थ हिसाणां साध्वादिसंघस्या पुण्यार्थ प्रत्युपकारवाच्या प्रागनेन मे बहूपकृत १० । श्रुत्वेति कमलो गुरुक्त दानानि ददानः स्वर्गभागभूत् क्रमान्मुक्तिमपि यास्यति । इति दशधा दानगाथा ॥२६४॥ [265] अथ शुद्धाहारग्रहणे यतिक्षुल्लकसम्बन्धः । 10 कश्चिद्भपो जातवैराग्यो धर्मपरीक्षा चक्रे । कोऽत्र निसृष्टं मुक्ते। ततो राज्ञा पृष्ठा अनेके जना यूयं कथं निवहथ ?। एकेनोक्तं-मुखेन । द्वितीयेन पादाभ्यो । तृतीयेनोक्तं-हस्ताभ्यां । चतुर्थः-लोकानुप्रहेण । पञ्चमो जैनक्षुल्लोऽवग-अहं मुधा जीवामि। भावार्थ पृष्टास्ते जगुरेवं प्रथमोऽवग्-रामायणादिकथाकथनेन जीवामि मुखेनैव । द्वितीयोऽवग-लेखवहनेन । तृतीयोऽवग--अहं लेखकोऽस्मि अतो हस्ताभ्यां जीवामि । चतुर्थो भिक्षुरवग्-लोकानुग्रहेण । क्षुल्लोऽवग--संसारासारतां विलोक्याहं महेभ्यसुतः प्रव्रजितः ततो न मदर्थे कृसं यदन्नं तदाहारं मुधा गृहणामि । ततो राजा जैनव्रतं सर्वदुःखमोचकं मत्त्वा दीक्षा लात्वा शत्रुक्षयं गत्वा तपस्तप्त्वा मोक्षं गतः । इति शुद्धाहारग्रहणे यतिक्षुल्लकसम्बन्धः ॥२६५|| [266 ] औदार्ये कुमारपाललक्षटङ्ककदानसम्बंधः । एकदा श्रोहेमसूरिणा स्वकरधृतवामकरस्य कुमारपालस्य शत्रुब्जयचैत्यपाटी कुर्वतः कपर्दिककविः प्राह श्रीचौलुक्यसदक्षिणस्तर करः पूर्व समासूत्रितं, प्राणिप्राणविधातपातकसखः शुद्धो जिनेन्द्रार्चनात् । वामोऽप्येष तथैव पातकसखः शुद्धिं कथं प्राप्नुयात्, न स्पर्शन करेण चेद्यतिपतेः श्रीहेमचन्द्रप्रभोः ॥१॥ तत्र श्रीकुमारपालभूपालस्तस्मै कवये लझटङ्ककान्ददौ । इत्यौदार्ये कुमारपाललझटङ्ककदानसम्बन्धः ॥२६६॥ 15 20 "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy