SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १२२ ] प्रबन्धपञ्चशती यथा चित्तं तथा वाचो, यथा वाचस्तथा क्रिया। धन्यास्ते त्रितयो येषां, विसंवादो न विद्यते ॥३॥ मम बान्धवाः सर्वे सत्त्ववन्तो धर्मिष्ठाः परोपकारिणो दानिनो दयावन्तो विद्यन्ते । ततः कविः प्राह पञ्चभिः सौदरैीमा-र्जुनादिमिर्लसबलः । जीयास्त्वं पृथिवीं न्याया-त्पालयन् श्रीयुधिष्ठिर ! ॥४॥ ततो राजा तथा दानं ददौ यथा यावज्जीवं भवति । इति दाने युधिष्ठिरभीमसम्बन्धः ॥१९९॥ [200] अथ क्षमायां श्रेष्ठिपुत्रसंबंधः । 10 श्रीपुरे भीमश्रेष्ठिनः पुत्रश्चन्द्रो हट्टे उपविष्टो व्यवसायं कुर्वाणोऽपरवणिग्भिः ममं कलिं कुरुते स्म । श्रेष्ठी स्वं पुत्रं निवारयति । ततः स्वपुत्रसंमुखहट्टस्थवणिजोः कलिं कुर्वाणयोः श्रेष्ठी प्राह-कलिने क्रियते इहपरलोकदुःखहेतुत्वात् । तथापि तो कलेन निवृत्तौ । ततः श्रेष्ठी मृदुवचाः सूनोः पुरः प्राहाद्याहं यस्मि तत्त्वया कार्य । पुत्रः प्राह-शिक्षा वितर । ततः पिता आत्महट्टसमीपस्थो वणिगद्य शुभमशुभं वा यद्वक्ति तत्त्वया क्षन्तव्यं । पुत्रोऽवग्-तात ! ते वचः 16 प्रमाणं । ततः श्रेष्ठिना स्वपुत्राय तुला हट्टाने मण्डिता एकस्मिन्पाश्र्व तस्या: सेरो मुक्तः । तदा पाश्वहस्थो वणिग् गालिं दायंदायं सन्ध्या यावस्थितः । श्रेष्ठिपुत्रस्तु मौनी जातः । सन्ध्यायां श्रेष्ठिनोक्तं-भो पुत्र ! तुलाचेल्लकं द्वितीयं किं गालिभिभृतं न वा नमितं नवा पुत्रस्तो विलोक्याह-तात याशी तुला प्रातर्मण्डिता तयैव धारणयाधुना तुलास्थितास्ति । पिता ततःप्राह यथा गालिभिस्तुला न भृता तथा गालिभिरप्यात्मनो न लगति । ततः पुत्रोऽवग-अद्यप्रभृति 20 मया क्षमैव कर्त्तव्या । इति क्षमायां श्रेष्ठिपुत्रसम्बन्धः ॥२४०॥ [ 201] अथ धर्मनिश्चलतायां महणसिंहसम्बन्धः । एकदा ढोल्यां पुरि पोरोजसुरत्राणश्च चालान्यपुरं प्रति तदा महणसिंहः साधुः सार्द्धमाकारितः, मार्गे सूर्यास्तसमये तुरङ्गमादुत्तीर्य प्रतिक्रमणं कर्तुं साधुमहणसिंहः सामायिक ललौ। प्रतिक्रमणं कर्तुं लग्नश्च राजा त्वतने ग्रामे गतः । तदा महणसिंहमाकारयितुं जनमप्रैषीत् । तदा पश्चास्थितो ज्ञातः । ततस्तत्र जनः प्रेषितः । सोऽपि तावस्थितो यावत्तेन सामायिक 26 पारितं । ततो महणसिंहो राजपावें समायातः । राज्ञा पश्चास्थितिस्वरूपं पृष्टं। मणसिंहे नोक्तम्-अरण्ये वने ग्रामे रणे नद्यां वा अस्तं याति रवौ अवश्यमुभयोः कालयोः प्रतिक्रमणं मया क्रियते । राजाऽवग-अनेके वैरिणः सन्ति कदाचित्तैर्मारितः स्यात्तदा का गतिः । महणसिंहः प्राह-धर्म कुवतो यदि मरणं भवति तदा स्वर्ग एव भवति । तेन मया धर्मध्यानं तत्रैव कृतं, वेलातिक्रमो मया न क्रियते । महणसिंहधर्मवचने ते राजा हृष्टो, यत्रारण्ये वने महणसिंहो "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy