SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ सादर्श: [प्रथमाकारकेकारणत्वं कल्पनीयम् । अवच्छेदकतायां निरवच्छिन्नत्वनिवेशोपि पूर्ववद् बोध्यः । वस्तुतस्तु तद्धर्मान्यवृत्तिविषयतासंबन्धेन ज्ञान प्रति तद्धर्मभेदत्वेन हेतुता लाघवात्। च्छिन्नावच्छेदकता दण्डसंयोगनिष्ठाऽवच्छेदकता तादृशावच्छेदकतानिरूपिता याऽवच्छेदकता दण्डनिष्ठाऽवच्छेदकता तदवच्छेदकत्वं दण्डत्वे तेन संबन्धेनेत्यन्वयः । 'जातिमद्वान् दण्डवान्' दण्टवान् जातिमद्वान् ' इत्यादावऽभेदान्वयबोधस्येष्टत्वादाहअवच्छेदकतायामिति । भवच्छेदकतायाम् विशेष्यतावच्छेदकतावच्छेदकतावच्छेदकतायां तथा प्रकारतावच्छेदकतावच्छेदकतावच्छेदकतायां निरवच्छिन्नत्यनिवेशः कर्तव्यस्तथा च 'दण्डवान् दण्डवान् । इत्यत्र दण्डत्वे या विशेष्यतावच्छेदकतावच्छेदकतावच्छेदकतास्ति तथा या प्रकारतावच्छेदकतावच्छेदकतावच्छेदकतास्ति सा निरवच्छिन्नास्ति दण्डत्वस्य स्वरूपेणैव मास मानत्वादिति तत्र विशेष्यतावच्छेदकतावच्छेदकतावच्छेदकप्रकारतावच्छेदकतावच्छेदकतावच्छेदकधर्मयोर्भेदस्याभेदान्वयबोधं प्रति कारणत्वमस्ति न चास्ति तादृशधर्मयोर्भेदो विशेष्यतावच्छेदकतावच्छेदकतावच्छेदकस्य प्रकारतावच्छेदकतावच्छेदकतावच्छेदकस्य दण्डत्वस्याऽभिन्नत्वादिति न तत्राभेदान्वयबोधापत्तिः । 'जातिमद्वान् दण्डवान् । इत्यत्र जातिमद्वान् दण्डसंयोगवान् पुरुषो विशेष्यस्तत्र दण्डसंयोगस्तत्र दण्डस्तत्र जातिः प्रकार. जातिश्च जातिरवेन रूपेण भासते किलानिपनियामास्ति तथा चात्र जातिनिष्ठा विशेष्यतावच्छेदकतावच्छेदकतावच्छेदकता Kारी मात्र तद्धर्मभेदस्य कारणत्वमिति जातेर्दण्डत्वरूपत्वेन प्रकारतावच्छेदक लातविच्छेदकस्य दण्डत्वस्य विशेष्यतावच्छेदकतावच्छेदकतावच्छेदिकाया जातेश्च परस्पर मावेपि नाऽभेदान्वयबोधानुपपत्तिः, तथा 'दण्डवान् जातिमहान् ' इत्यत्र च जातिमिष्ठा अकारतावच्छेदकतावच्छेदकतावच्छेदकता जातित्वावच्छिन्नास्तीति विशेष्यतावच्छेदकतावच्छेदकतावच्छेदकस्य दण्डत्वस्य प्रकारतावच्छेदकतावच्छेदकतावच्छेदिकाया जातेश्च परस्परं भेदाभानपि नाऽभेदान्वयबोधानुपपत्तिरित्यर्थः । जातिमद्वानित्यत्र जातिः दण्डत्वं तद्वान् दण्डस्तद्वान् पुरुषः, मतुपश्च संबन्धिनि शक्तेर्दण्डवत्पुरुषे दण्डसंयोगः प्रकारस्तत्र दण्डस्तत्र दण्डे दण्डत्वरूपा अतिर्जातौ च जातित्वं प्रकार इति । - पृथक् पृथक् कार्यकारणभावानुक्त्वा संप्रति सर्वानुगतं कार्यकारणभावमाह- वस्तुतस्त्विति । व्याप्यधर्मावच्छिन्ने कार्ये जननीये व्यापकधर्मावच्छिन्नकार्यस्य सामग्री अपेक्षिता भवतीत्याशयेन यत्र यत्र शाब्दबोधस्तत्र तत्र ज्ञानं भवत्येवेति ज्ञानस्य शाब्दबोधव्यापकत्वात् ज्ञानस्यैव कार्यकारणभावमाह- सद्धर्मे ते, तद्धर्मपदेन विशेषगकोटिप्रविष्टपदार्थगतधर्मो ग्राह्यो यथा-प्रकारतावच्छेदकः प्रकारतावच्छेदकतावच्छेदकः प्रकारतावच्छेदकतावच्छेदकतावच्छेदक इत्यादि, तदन्यपदेन विशेष्यकोटिप्रविष्टपदार्थगतधर्मों ग्राह्यो यथा- विशेष्यतावच्छेदको विशेष्यतावच्छेदकताचच्छेदको विशेष्यतावच्छेदकतावच्छेदकतावच्छेदक इत्यादि । वस्तुतस्तु यस्मिन् धर्मे द्रव्यत्वादी तद्गतविषयताविशेषसंबन्धेन शाब्दबोध उत्यांदनीयस्तदन्यधर्मो घटत्वादिस्तद्धर्मपदेन पाहाः तद्न्यच शाब्दबोधाधिकरण द्रव्यत्वादिकमऽन्यपदेन ग्राह्यम्, एवं च प्रकारताख्यविषयतासंबन्धन "Aho Shrutgyanam"
SR No.009523
Book TitleVyutpattivada Adarsha Vyakhya
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1970
Total Pages668
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy