SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ (४४) सादर्शः [ प्रथमाकारकेविषयस्यैवोपस्थितिशाब्दबोधाधिकरणत्वात् तथा च यज्ञदत्तस्य पटत्वावच्छिन्नविषयकोपस्थिस्यादिसत्त्वे देवदत्तस्यापि पटत्वावच्छिन्नविषयकशाब्दबोधः स्यादेवेति तद्वारणाय तत्पुरुषीयस्वा निवेशः कर्तव्यः-- विषयतासंबन्धेन देवदत्तीयपटत्वावच्छिन्नविषयकशाब्दबुद्धित्वावच्छिन्नं प्रति विषयतासंबन्धेन देवदत्तीयपटत्वावच्छिन्नविषयकोपस्थित्यादिकं कारणमिति तत्तत्पुरुषाणां नाना त्वेन तेषां निवेशादात्मनिष्ठप्रत्यासत्यपेक्षया गौरवं तत्र तत्पुरुषीयत्वनिवेशापेक्षाभावात् । । तथा च यत्र विशेषणविशेष्ययोः समानसंख्याकत्वं भवति यथा-- 'नीलो घटः' इत्यत्रैकमेव विशेषणमेकमेव च विशेष्यमिति: तत्रात्मनिष्टप्रत्यासत्त्या वा विषयनिष्ठप्रत्यासत्त्या वा शान्दबोधो भवतु विशेषो नास्ति यतोत्रात्मनिष्ठप्रत्यासत्त्या शाब्दबोधपक्षे तत्पुरुषीयत्वप्रवेशामावप्रयुक्तलाघवसत्तेपि विषयप्रवेशेन गौरवमस्त्येव, विषयनिष्ठप्रत्यासत्त्या शाब्दबोधपक्ष च विषयप्रवेशाभावप्रयुक्तलाघवसत्त्वेपि तत्पुरुषीयत्वप्रवेशेन गौरवमस्त्येवेत्युभयप्रत्यासत्त्योस्तुल्यत्वमेव । किं तु यत्र विशेषणविशेष्ययोः समसंख्याकत्वं न भवति तत्रात्मनिष्ठप्रत्यासत्त्या शाब्दबोधापेक्षया विषयनिष्ठप्रत्यासत्या शाब्दबोधे लाघवं भवति, तथा हि-- यथा- 'नीलो घटः पीतो घटः सुन्दरो घटः । इत्यत्र विशेषणानि बहूनि विशेष्यं चैकमेव, अनात्मनिष्ठप्रत्यासत्या शाब्दबोधस्वीकारे समवायेन अभेदसंबन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकशाब्दबुद्धित्वावच्छिन्नं प्रति समवायेन अभेदसंबन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकोपस्थित्यादिकं कारणम् , एवं अभेदसंबन्धावच्छिन्नपीतत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकशाब्दबुद्धित्वावच्छिन्ने प्रति अभेदसंबन्धावच्छिन्नपीतत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकोपस्थित्यादिकं कारणमित्येवं पृथक् पृथक् कार्यकारणभावस्य वक्तव्यत्वेन महद् गौरवं भवति, विषयनिष्ठप्रत्यासत्त्या शाब्दबोधपक्षे च घटत्वावच्छिन्नविशेष्यतानिरूपिताऽभेदसंबन्धावच्छिन्नप्रकारतावच्छेदकतासंवन्धेन तत्पुरुषीयशाब्दबुद्धिवावच्छिन्नं प्रति घटत्वावच्छिन्नविशेष्यतानिरूपिताऽभेदसंबन्धावच्छिन्नप्रकारतावच्छेदकतासंबन्धेन तत्पुरुषीयोपस्थित्यादिकं कारणमित्येवमेकेनैव वाक्येन 'नीलो घटः ' ' पीतो घटः । इत्यादीनामेकघटविशेव्यकवाक्यानां सर्वेषामपि शाब्दबोधतत्कारणयोः कार्यकारणभावस्यानुगमः संभवति यतो यत्र यत्र नीलत्वपीतत्वसुन्दरत्वादौ प्रकारतावच्छेदकतासंबन्धेन शाब्दबोधकारणमुपस्थित्यादिकं भविध्यति तत्र तत्रैव प्रकारतावच्छेदकतासंबन्धेन शाब्दबोधोपि भविष्यतीति बहूनां विशेषणीभूतानां नीलपीतादीनां नामग्रहणापेक्षा नास्ति विशेष्यस्यैकत्वात् तस्यैव नामग्रहणं कृतं घटत्वावच्छिन्नेति इत्यात्मनिष्ठप्रत्यासत्यपेक्षया लाघवम्, तत्र समवायसंबन्धेन कार्यकारणभावनियमाद् विषयतासंबन्धेन च कार्यकारणभावाऽसंभवेनैवंप्रकारेण लाघवासंभवात् । ___ एवम्- ‘पटो नील: ' ' घटो नीलः , 'मठो नीलः ' इत्यत्र विशेष्याणि बहूनि विशे•षणं चैकमेत्र, अत्राप्यात्मनिष्ठप्रत्यासत्त्या शाब्दबोधपक्षे समवायेनाभेदसंबन्धावच्छिन्ननीलत्वाव. च्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्न विशेष्यताकशाब्दबुद्धित्वावच्छिन्नं प्रति समवायेनाभेदसंबन्धा "Aho Shrutgyanam"
SR No.009523
Book TitleVyutpattivada Adarsha Vyakhya
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1970
Total Pages668
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy