SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ स्वस्तिपदार्थः ] व्युत्पत्तिवादः । ( ४८३ ) 6 6 स्वम् = उच्चारयिता । हितान्वयी संबन्धश्चतुर्थ्यर्थः, एवं च भवदीय हितविषयिणी मदीयेच्छा' इति बोधः । कल्याणाद्यर्थकोपि स्वस्तिशब्दः स्वस्त्यस्तु मम ' इत्यादौ तत्रापि चतुर्थ्यर्थः स्वस्त्यर्थान्वयी संबन्ध इत्यल पल्लवितेन ॥ ॥ इति चतुर्थ्यर्थनिरूपणं समाप्तम् ॥ C भवदीयहितविषयिणी=भवन्निरूपितहितविषयिणी । कल्याणार्थकस्वस्तिशब्दमुदाहरति-- कल्याणेति । स्वस्त्यस्तु मह्यम्' इत्यत्राशीर्न संभवति आशिष्पदार्थे परकीयत्वनिवेशात् स्वस्य च स्वापेक्षया परत्वाभावादित्यर्थः । अत्रापि कल्याणात्मक स्वस्त्यर्थान्त्रयि निरूपितत्वमेव चतुर्थ्यर्थस्तच्च संबन्धभूतमेव तादृशचतुर्थ्यर्थनिरूपितत्वेन संबन्धेन प्रकृत्यर्थस्य स्वस्त्यर्थेन्वयात्, मन्निरूपितहितविषयिणी मदीयेच्छा ' इति शाब्दबोधः । वस्तुतस्तु परत्वनिवेशं विना हितविषयस्वेच्छा स्वस्तिपदार्थो वक्तव्यस्तेन चोक्तोभयत्रैकगत्यैव समन्वयः संभवति ॥ ८ ॥ इति व्युत्पत्तिवादादर्शे चतुर्थीकारकम् ॥ "Aho Shrutgyanam"
SR No.009523
Book TitleVyutpattivada Adarsha Vyakhya
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1970
Total Pages668
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy