SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ प्रकृतोपसंहारः ] व्युत्पत्तिवाद | ( ४४५ } कचिदविशेषणस्यापि संबन्धो मत्वर्थीयेन बोध्यते ' घटोयं विनाशी ' इत्यादिप्रयोगदर्शनादिति दीधितिकृतः, तदसत् - आवश्यकार्थधातूत्तरणिनिप्रत्ययेनापि तत्र विनाशिपदव्युत्पत्तेरिति ॥ ॥ इति वृतीया ॥ एवं च मत्वर्थीयेन प्रत्ययेन विशेषणस्यैव संबन्धः प्रत्याय्यते न तूपलक्षणस्य तृतीयया तु विशेषणोपलक्षणयोरुभयोरपि संबन्धः प्रत्याय्यते इति सिद्धं तत्र दीधितिकारेण यदुक्तमऽविशेबगस्य=उपलक्षणस्यापि संबन्धो मत्वर्थीयेन प्रत्यास्यते यथा ' वटोयं विनाशी ' इत्यत्र घटे: विनाशस्याविद्यमानखेन विशेषणत्वं न संभवतीत्यऽविशेषणस्यापि विनाशस्य संबन्धो विनाशपदोत्तरमत्वर्थीयणिनिप्रत्ययेन प्रतिपाद्यते इति तत्परिहारायानुवदति-- कचिदिति, परिहरति-तद प्रदिति, ' घटोयं विनाशी ' इत्यत्र विनाशपदोत्तरं मत्वर्थीयणिनिप्रत्यय एव नास्ति येनोक्तरीत्या मत्वर्थीयप्रत्ययस्याऽविशेषणसंबन्धप्रतिपादकत्वं प्राप्नुयात् किं तु आवश्यकार्थेन धातू'तराणनिप्रत्यये न " आवश्यकाधमर्णयोः " इतिसूत्रात् प्राप्तेन' विनाशी ' इति पदं सिद्धमस्तीत्यर्थः । ॥ इति व्युत्पत्तिवादादर्शे तृतीयाकारकम् ॥ "Aho Shrutgyanam"
SR No.009523
Book TitleVyutpattivada Adarsha Vyakhya
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1970
Total Pages668
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy