SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ (३९४) सादर्शः [तृतीयाकारकेयदि च तत्र शरत्संबन्धः सप्तच्छदविशेषणतया भासते न पुनराख्यातार्थे धातुमात्रार्थे वा पुष्पोत्पत्ती. अत एव तत्र :कारकविभक्तिरूपसप्तम्यनुपपत्त्या कालरूपविशेषणपदोत्तरं स्वातन्त्र्येण सप्तमी शर्ववर्मणाऽनुशिष्टा. एवं च क्रियानिमित्तत्वरूपकारकत्वगर्भकर्तृत्वस्याख्यातार्थत्वे पुष्पोत्पत्तिनिमित्तत्वरूपाख्याता न्तार्थस्य विशिष्टान्वयानुरोधेन शरत्संबन्धेप्यन्वय उपगन्तव्य इति कारकत्वस्याख्यातार्थत्वानुपगमेपि 'शीतलं सरोवगाढतो निदाघदुःखं व्यपैति' इत्यादाविवोद्देश्यविधेयभावमहिम्नोद्देश्यविशेषणेन शरत्संबन्धन विधेयभूतपुष्पोत्पत्तेः प्रयोज्यप्रयोजकभावस्य संसर्गमर्यादया भानमौत्सर्गिकमिति चम्पकादिपुष्पोत्पत्तौ ननु 'शरदि पुष्प्यन्ति सप्तच्छदाः' इत्यत्र शरवृत्तित्वमाऽऽख्यातार्थे पुष्पोत्पत्त्याश्रयत्वेपि विशेषणं नास्ति तथा धात्वर्थभूतपुष्पोत्पत्तावपि विशेषणं नास्ति येनोक्तदोषापत्तिः स्यात् किं तु शरवृत्तित्वं सप्तच्छदे एव विशेषणमस्ति, अत एव शरदीति सप्तम्यर्थवृत्तिस्वस्य सप्तच्छदद्रव्ये विशेषणत्वेन क्रियायां विशेषणत्वामावादेव कारकविभक्तिरूपसप्तम्या अत्र प्राप्तिर्नास्तीति विचार्य शर्ववर्मणा व्याकरणकर्ता विशेषणीभूतकालविशेषवाचकपदोत्तरं पृथगेव सप्तम्यनुशिष्टा, शरवृत्तित्वस्य सप्तच्छदाऽविशेषणत्वे तदनुशासनं व्यर्थमेव स्यात्, तथा चात्र 'शरवृत्तित्वविशिष्टाः सप्तच्छदाः पुष्प्यन्ति' इति शाब्दबोधः । तत्र च क्रियानिमित्तत्वमेव कारकत्वं कारकत्वव्याप्यं च कर्तृत्वमिति कारकत्वगर्भकर्तृत्वस्याख्यातार्थत्वे-आख्यातस्य कर्तृत्ये शक्तिस्वीकारपक्ष भाख्यातार्थभूतस्य कर्तृत्वरूपस्य पुष्पोत्पत्तिनिमित्तत्वस्य विशिष्टान्वयानुरोधेन विशिष्टे-शरदवृत्तित्व (शरसंबन्ध ) विशिष्ट सप्तच्छदेष्वऽन्वयानुरोधेन शरवृत्तित्वविशिष्टसप्तच्छदानां पुष्पोत्पत्तौ कर्तृत्वरूपनिमित्तत्वे प्राप्ते शरसंबन्धस्यापि पुष्पोत्पत्तिनिमित्तत्वं प्राप्त तथा च सप्तच्छदपुष्पोत्पत्ती शरत्संबन्धस्य निमित्तत्वातू ' शरदि पुष्प्यन्ति सप्तच्छदाः' इतिप्रयोगो भवति. शरदि चम्पकपुपोत्पत्तिस्तु दोहदादिनिमित्तिका भवति न तु शरत्संबन्धनिमित्तिका स्वभावतश्चम्पकपुष्पागा शरदि जायमानत्वाभावादिति 'शरदि पुष्प्यन्ति चम्पकाः' इतिप्रयोगापत्तिर्नास्ति; वृक्षादिजडपदार्थेषु कर्तृत्वस्य बाधादन कर्तृत्वलक्षणकारकत्वे शत्यऽस्वीकारपक्षे च यद्यपि शरवृत्तित्वविशिष्टसप्तच्छदानां पुष्पोत्पत्त्याश्रयत्वात् विशेषणीभूतशरदः सप्तच्छदपुष्पोत्पत्त्याश्रयत्ववत् चम्पकपुष्पोत्पत्त्याश्रयत्वमपि शरदि निराबाधमेवेति 'शरदि पुष्प्यन्ति चम्पकाः' इति प्रयोगः स्यादेव तथाप्यऽस्मिन् पक्षे यथा 'शीतलं सरः' इत्यत्र शीतलसरोऽवगाहनमुद्दिश्य निदाघदुःखापगमो विधीयते इत्युद्देश्यविधेयभावमहिम्ना निदाघदुःखापगमस्य शीतलसरोऽवगाहनस्य च परस्परं प्रयोज्यप्रयोजकमावः संसर्गमर्यादया भासते( उपस्थापकाभावात् तथैव 'शरदि पुष्प्यन्ति सप्तच्छदाः' इत्यत्रापि शरवृत्तित्वविशिष्टसप्तच्छदानुद्दिश्य पुष्पोत्पत्तिर्विधीयते इति विधेयभूतपुष्पोत्पत्तेरुद्देश्यविशषणीभूतशरत्संबन्धस्य च परस्परं प्रयोज्यप्रयोजकभावः संसर्गमर्यादया भासते तथा च सप्तच्छदपुष्पोत्पत्तौ शरत्संबन्धप्रयोज्यत्वस्य सत्वात् 'शरदि पुष्प्यन्ति सप्तच्छदाः' इति प्रयोगो भवति "Aho Shrutgyanam"
SR No.009523
Book TitleVyutpattivada Adarsha Vyakhya
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1970
Total Pages668
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy