________________
( ३५४ )
[ द्वितीयाकारकद्वितीयखण्डे
ध्ययनस्थलेपि
तादृशाखण्डकाले
प्रतियोगिव्यधिकरणाध्ययनाभावासत्त्वेन 'मासमधीते ' इति प्रयोगापत्तेः । मासघटकं च दिनं सूर्योदयावधि सूर्योदयान्तरपर्यन्तावस्थाय्य खण्डवस्तुरूपं न तु क्रियादिप्रचयः - तथा: सत्येकैकक्रियादिव्यक्तेरपि मासत्वाधिकरणतया तत्र प्रतियोगिव्यधिकरणाध्ययनाभावसत्त्वेन व्यापकत्वरूप द्वितीयार्थस्य बाधापत्तेः ।
दिवस स्वपिति' इत्यादौ च दिवसादिपदं सूर्योदयावधि सूर्योदयान्तरपर्यतक्षणकूटपरमेव अतो नैकदण्डादिमात्रस्वमे तथाप्रयोगः ।
अथ व्यापकत्वस्य द्वितीयार्थत्वे एकमासादिव्यापकाध्ययनस्थलेपि मासा - न्तरेऽध्ययनाभावसत्त्वेन मासत्वादिव्यापकताया अध्ययने बाधेन ' मासमधीते ' -मासस्यैकस्मिन्नपि दिवसेऽध्ययने कृते तादृशाखण्डकालेऽध्ययनं जातमेवेत्यऽध्ययनव्यधिकरणस्याऽध्ययनाभावस्य तादृशाखण्डकालेऽसत्त्वेन तत्रापि ' मासमधीते ' इतिप्रयोगः स्यादेव प्रतियोगिव्यधिकरणाभावासत्त्वं एतत्प्रयोगस्येष्टत्वादित्यर्थः । दिनपदार्थमाह- मासघटकं चेति । क्रियादिप्रचय: == सूर्यपरिस्पन्दप्रचयः । तथा सति यदि क्रियासमूह एव दिनपदार्थ: स्यात्तदा एकैकक्रियाव्यक्तेरपि मासत्वाधिकरणत्वं स्यात्तथा च तादृशक्रियावच्छेदकदण्डादिषु प्रतियोगिव्यधिकरणस्याप्यध्ययनाभावस्य सत्त्वादेवाध्ययने व्यापकत्वाप्रात्या द्वितीयार्थो व्यापकत्वं नैव संभवेत्, न हि दिनस्य प्रत्येकक्षणे प्रत्येकदण्डे वाध्ययनं भवति किं तु केषुचिदेव दण्डेषु दिनस्याखण्ड पदार्थत्वे दिनस्य कस्मिन्नपि भागेऽध्ययने कृते . मासत्वाविकरणीभूतदिनेष्वध्ययनसंचन्द्राध्ययनस्य मासव्यापकत्वं संभवतीत्यर्थः ।
दिवस स्वपिति इत्यत्र दिवसपदं सूर्योदयावधि सूर्योदयान्तरपर्यन्तक्षणकूटर तादृशक्षणकूटेन स्वापसंबन्धे सत्येव ' दिवस स्वपिति इति प्रयोगो भवति न तु दण्डमात्रस्वप्रपीत्याह-दिवसमिति । अत्र दिवसपदस्याखण्डवस्तुपरत्वे एकदण्डमात्र स्वप्नेध्यखण्ड पदार्थेन स्वापसंबन्धे जाते ' दिवस : स्वपिति ' इतिप्रयोगः स्यात् न चैतदिष्टमिति तद्वारणाय दिवसपदस्य तादृशक्षण कूटपरत्वमुक्तमिति भावः ।
मासव्यापकत्वं चाध्ययने उच्यते मासत्वावच्छिन्न व्यापकत्वस्याध्ययने
ननु ' मासमधीते ' इत्यत्र यदि व्यापकत्वं द्वितीयार्थो तदा मासान्तरस्यापि मासत्वाद् मासान्तरेऽध्ययनाभावे बाधान्मासव्यापकाध्ययनस्थलेपि ' मासमधीते ' इति प्रयोगानुपपत्तिरित्याशङ्कते - अथेति । ननु यद्यपि मासपदेन यत् किंचित्रिंशद्दिनमात्रवृत्ति विशेष धर्मप्रकारेण त [=तदूव्यक्तित्वेन रूपेण मासपदार्थस्योपस्थितिर्न संभवति येनाध्ययनस्योपस्थिततन्मासव्यक्तिमात्रव्यापकत्वं प्रामुयात् तथापि तद्धर्मवत् =मासत्त्रधर्मवत् यत्स्त्रं तन्मासव्यक्ति: ( अध्ययनाधिकरणमासव्यक्तिः ) तन्निरूपित यदाधेयत्वम् ( पूर्वं मासाधेयत्वं प्रथमाभावे उक्तं तत्स्मरणीयम् ) तादृशाधेयत्व संबन्धेन मासपदार्थस्योक्तप्रयमाभावेऽन्वयः स्वीक्रियते इति यत् किंचिन्मास ( तम्मासव्यक्ति-मध्ययनाधिकरणमा
4
सादर्श:
(
"Aho Shrutgyanam"