SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ (१६) सादर्श: [ प्रथमाकारके-- सुपदत्वादिभ्रमदशायां शाब्दबोधोत्पत्त्या स्वरूपतो विरुद्धविभक्तिराहित्यस्याप्रयोजकत्वात् । __ अथ ' नीलो घटः ' ' नीलघटः' इत्यादिद्विविधबोधसाधारणं स्वोत्तरसुप्पदभिन्नपदानुत्तरत्वविशिष्टस्वोत्तरत्वादिरूपस्वाव्यवाहितोत्तरत्वसंबन्धेन नीलादिपदवत्सुबन्तघटादिपदत्वमेव तथास्तु इतिचेत् ? न- 'नीलघटरूपम् ' इत्यादिवाक्यसाधारण्यानुराधेनाऽन्याश्या अपि आकाङ्क्षायाः समासस्थले उपगन्तव्य तयोपदर्शितसमासव्याससाधारणानुगताकाक्षानुसरणस्याप्रयोजकत्वादिति । काङ्क्षायाः ज्ञानसत्त्वाच्छान्दबोध उपपद्यते जायते च, यद्याकाङ्क्षा स्वरूपसत्येव कारगं स्यात्तदा वस्तुतः 'नीलस्य घटः' इत्यत्रोक्ताकाङ्क्षाया असत्त्वात् षष्ठयादौ सुपदत्वभ्रमदशायामपि शान्दबोधो न स्याद् भवति तु तस्मादाकाङ्क्षाज्ञानस्यैव कारणत्वं प्राप्तं तथा चोक्तो विमक्तित्वादिकमजानतः पुरुषस्य शाब्दबोधानुपपत्तिरूपो दोषस्तदवस्थ एवेत्यर्थः । - ननु निखिलबोधसाधारणाकाङ्क्षानिर्वचनस्याशक्यत्वेपि “नीलो घटः' 'नीलधटः' 'नीलं घटम्' 'नीलघटम्' इत्यादिद्विविधबोधसाधारणं त्वाकाङ्क्षास्वरूपं निर्वक्तुं शक्यते तच्च स्वोत्तरसुप्पदेत्यादि ज्ञेयम् , तथा हि स्वं विशेषणवाचकनीलपदं तदुत्तरवति यत् सुप्पदं विभक्तिपदं तद्भिन्नं यत् पटादिपदं तदनुत्तरत्वविशिष्टं स्वं विशेषणवाचकपदं तदुत्तरत्वादिरूपं यत् स्वाव्यवहितोत्तरत्वं तेन संबन्धेन नीलादिपदवत् यत्सुबन्तघटादिपदं तत्त्वमेवाकाङ्क्षा तथा चात्र घटपदे नीलपदोत्तरवर्तमानविभक्तिपदोत्तरत्वसत्त्वेपि तद्मिन्नपटादिपदानुत्तरत्वमप्यस्त्येव तथा नीलपदोत्तरत्वमप्यस्त्येवेत्यनेन संबन्धेन घटपदे नीलपदवत्त्वमुभयत्रास्त्येव तदेवाकाङ्क्षास्त्वित्याशङ्कते- अथेति । तथा नामाऽऽकाक्षा । 'नीलस्य घटः' इत्यादिप्रयोगवारणाय सुप्पदमिन्नपदेनात्र विशेष्यवाचकघटादिपदोत्तरवर्तमानविभक्तिपदमिन्नपद ग्राह्यं तथा च 'नीलस्य घटः' इत्यत्र विशेष्यवाचकघटपदोत्तरवर्तमानं यत् प्रथमाविभक्तिपदं तद्भिन्नं यत् षष्ठीविभक्तिपदं तदुत्तरत्वमेव घटपदेस्ति तदनुत्तरत्वं नास्तीति नात्रोक्ताकाङ्क्षा । तथा चात्र 'विशेष्यवाचकघटादिपदोत्तरविभक्तिवृत्तिविभक्तिविभाजकप्रथमात्वादिधर्मावच्छिन्नपदमिन्नपदानुत्तरत्वविशिष्टस्योत्तरत्वादिरूपस्वाव्यहितोत्त. रत्वसंबन्धेन नीलादिपदवत्सुबन्तवटादिपदत्वमाकाङ्क्षा , इत्येवमाकाङ्क्षास्वरूपं वक्तव्यम् । परिहरति- नेति, 'नीलघटरूपम् ' इत्यत्रापि शाब्दबोध इष्टः किं तु त्वदुक्तोक्ताकाङ्क्षास्त्ररूपं न घटते यतो नीलं च तद् घटरूपमिति कर्मधारयेण विशेष्यवाचकरूपपदे विशेषणवाचकनीलपदाव्यवहितोत्तरत्वं नास्ति मध्ये घटपदेन व्यवधानात, न च घटरूपमित्येकपदं तर्कमते "शक्तं पदम् " इति नियमेन घटपदस्य भिन्नत्वाद् रूपपदस्य च भिन्नत्वात्, तस्मात् 'नीलघटरूपम् ' इत्यत्र जायमानशाब्दबोधनिर्वाहार्थमऽन्यादृशमाकाक्षास्वरूपं वक्तव्यं तच्च- ' स्वोतरसुप्पदभिन्ननिराकाङ्क्षपदानुत्तरत्वविशिष्टस्योत्तरत्वादिरूपस्वाव्यवहितोत्तरत्वसंबन्धेन नीलादिपदबत्सुबन्तघटादिपदत्वम् । इति, लक्षणसमन्वयः पूर्ववदेव ' नीलो घटः । 'नीलघटः' इत्यादौ "Aho Shrutgyanam"
SR No.009523
Book TitleVyutpattivada Adarsha Vyakhya
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1970
Total Pages668
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy