SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ णिजन्तयगन्तप्रयोगः ] व्युत्पत्तिवादः। (२६३) शप्" इत्यादेः शबादिविधायकत्वात् . प्रकृते ण्यन्तसमुदायोत्तरमेवाख्यातं तेन तदर्थनिरूपितकर्तृत्वं च न बोध्यते. अपि तु ण्यर्थविशेषितधात्वान्वितकर्तृत्वमेवेति न तादृशापवादविषयतेति वाच्यम्, कर्माख्यातस्थले विशेष्यविशेषणमाववैपरीत्येन व्यापारविशेषितक्रियाया अपि ण्यन्तधात्वर्थत्वात् ।। मैवम्- लकारसामान्यवृत्त्या यत्र कर्तृत्वं प्रतीयते तत्रैव "कर्तरि शप्" इत्यस्य शविधायकता, अत्र ( च) कर्मत्वसमशीले कर्तृत्वे आत्मनेपदत्वेन शक्तिः । वस्तुत:- फलव्यापारयोः पृथग् धात्वर्थतामते 'गच्छति' इत्यादाविव ' गम्यते' इत्यादावपि लकारेणाश्रयत्वरूपकर्तृत्वाभिधाने यगऽनुपपन्न तिप्रकृतिभूतभूधात्वर्थनिरूपितकर्तृत्वस्य विवक्षायां शप् भवति, प्रकृते= अजा याप्यते । इत्यत्र तु ण्यन्तसमुदायोत्तरमेवाख्यातमस्ति न तु केवलधातूत्तरमिति न तेन-आख्यातेन तिका तदर्थनिरूपितकर्तृत्वम् धात्वर्थनिरूपितकर्तृत्व बोध्यते किं तु स्वनिर्वाह्यकर्तृतानिरूपकत्वसंबन्धन ण्यर्थव्यापारविशिष्टो यो धात्वर्थस्तादृशधात्वर्थेन निरूपितत्वसंबन्धेन विशिष्ट यत् कर्तृत्वं तदेव बोध्यते इति नात्र तादृशापवादविषयता" कर्तरि शप्" इत्याद्यपवादविषयता, अत्रोक्तरीत्या शपः प्राप्तिरेव नास्ति येन यकोऽसाधुत्वं स्थादिति यावदित्याशझ्याह--- न चेति । परिहारमाह-कर्मेति, कोख्यातस्थले णिजर्थव्यापारस्यैव विशेष्यत्वं भवति कर्तर्यऽन्वयित्वात् कर्माख्यातस्थले च धात्वर्थस्यैव विशेष्यत्वं भवति कर्मण्यऽन्वयित्वादिति विशेष विशेषणभाववैपरीत्याद् विशेष्यभूतस्यैव समुदायार्थत्वाच स्वनिर्वाह्यकर्तृतानिरूपकत्वसंबन्धेन गिजर्थव्यापारविशिष्टायाः क्रियायाः धात्वर्थस्य ण्यन्तधात्वर्थत्वं प्राप्त तथा च ' याप्यते । इत्यत्राख्यातेन यदि प्यर्थविशेषितधात्वर्थान्वितकर्तवं बोध्यते तदा धात्वर्थक्रियानिलंपितकर्तृत्वमपि बोच्यते एथेति प्राप्तं धात्वर्थक्रियाया ण्यन्तधात्वर्थत्वादेव तथा चाख्यातप्रकृतिभूतधात्वर्थनिरूपितकर्तृत्वबोधनस्य शप्राप्तिकारणस्य सत्त्वात् शप्प्राप्त्यात्र यकोऽसाधुत्वं तदवस्थमेवेत्यर्थः ।। परिहरति-- मैवमिति, यथा ' भवति ' ' एधते' इत्यादौ: लकारसामान्यवृत्त्यैव कर्तत्वं प्रतीयते न त्वत्र लकारस्य परस्मैपदत्वेनात्मनेपदत्वेन रूपेण वा कर्तरि शक्तिरित्यत्र शब् भवति, अत्र' याप्यते । इत्यत्र तु कर्मणि यगस्तीत्यऽजावृत्तिकर्तत्वं कर्मत्वस्वरूपमेवास्तीति तादृशकतरि “भावकर्मणोः." इतिसूत्रेणात्मनेपदस्य प्राप्तत्वेनात्मनेपदत्वेनैव रूपेण लकारस्य कर्तृत्वे शक्तिरस्ति न तु लत्वेन रूपेणेति नायं शविषयो येन यकोऽसाधुत्वं स्यादित्यर्थः । स्वाभिप्रायमाह- वस्तुत इति,फलव्यापारयोर्धातोरेव शक्तिस्वीकारे लकारस्य कर्तृत्वमेवार्थः स्यादिति यथा 'गच्छति' इत्यत्र लकारं कर्तृत्वाभिधायकमिति शबेव भवति न तु यक् तथा 'गम्यते । 'याप्यते ' इत्यादावपि लकारस्य कर्तृत्वाभिधायकत्वाच्छबेव स्यादिति यगऽनुपपत्ति: स्यात् तस्मात् ‘गच्छति' इत्यादौ परस्मैपदसमभिव्याहृतंधातुना यादृशः प्रामादिवृत्तिसंयोगाद्यनुकूलचैत्रादिवृत्तिव्यापाररूपो विशिष्टोर्थः प्रतिपाद्यते तादृशविशिष्टार्थेन प्रामादिवृत्तिसंयोगाय "Aho Shrutgyanam"
SR No.009523
Book TitleVyutpattivada Adarsha Vyakhya
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1970
Total Pages668
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy