SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः प्रबन्धकोशेत्यपराह्वये [९] ॥ अथ श्रीबप्पभेट्टिसरिप्रवन्धः । 'गूर्जर'देशे 'पाडलीपुर'नगरे जितशत्रू राजा राज्यं करोति स्म । तंत्र श्रीसिद्धसेननामा सूरीश्वरोऽस्ति स्म । स 'मोढेर'पुरे महास्थाने श्रीमहावीरनमस्करणाय गतः । महावीरं नत्वा ५ तीर्थोपवासं कृत्वा रात्रावामारामरतो योगनिद्रया स्थितः सन् स्वप्न ददर्श, यथा- केसरिकिशोरको देवगृहोपरि क्रीडति। स्वप्नं लब्ध्वाऽजागरीत् । माङ्गल्यस्तवनान्यपाठीत् । प्रातश्चैल्यं गतः । तत्र षड्वार्षिको बाल एको बालांशुमालिसमद्युतिराजगाम | सूरिणा पृष्टः~ भो अर्मक ! कस्त्वम् ! कुत आगतः । तेनोक्तम् १० -- 'पश्चाल'देशे ढुंबाउधी' ग्रामे बप्पाख्यः क्षत्रियः । तस्य भट्टि म सधर्मचारिणी । तयोः सूरपालनामपुत्रोऽहम् । मत्तातस्य बह्वा भुजबलगर्विताः प्रचुरपरिच्छदाः शत्रवः सन्ति । तान् सर्वान् हन्तुमहं सन्नह्य चलनासम् । पित्रा निषिद्धः-वत्स ! बालस्वम्, नास्मै कर्मणे प्रगल्भसे, अलमुद्योगेन | ततोऽहं क्रुद्धः-किमनेन १५ निरभिमानेन पित्राऽपि यः खयमरीन् न हन्ति मामपि नन्त निवारयति ? । अपमानेन मातापितरावनापृच्छपात्र समागतः । सूरिणा चिन्तितम्- अहो दिव्यं रत्नम् ! न मानवमात्रोऽयम् ; तेजसा हि न घयः समीक्ष्यते । इति विमृश्य बाल आलेपे-~-- वत्सक ! अस्माकं पार्थे तिष्ठ निजगृहाधिकमुखेन । बाले. २० नोक्तम्- महान् प्रसादः । खस्थानमानीत । सचो दृष्टस्तद्रूपविलोकनेन । दृष्टयस्तृप्ति न मन्यते । पाठयित्वा विलोकितः । एकाहेन लोकसहस्रमध्यगीष्ट । गुरवस्तुष्टुवुः । रत्नानि पुण्यप्रचय १ प-प्रवी प्रबन्धोऽयं 'आभप्रबन्ध'प्रान्से समस्ति । २ ग-'बप्पभपरि०' । ३ ग- पाटलापुर.', घ.. पाउलापुर.'। क-'अत्र'। ५ग-'श्रीमहा। ६घ-बा. .ग-'सरते।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy