SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशत्तिप्रबन्धे [८ श्रीहरिभारिजह जलइ जलउ लोए, कुसत्यपवणाहओ कसायग्गी । तं चुछ जं जिणवयणअमियसित्तो वि पज्जलइ.॥ ४ ॥" बोधः । शान्तिः । १४४० ग्रन्थाः', प्रायश्चित्तपदे कृताः । 'चित्रकूट'तलइट्टिकास्थेन तैलवणिजा प्रतयः कारिताः । तत्प्रथम ५: याकिनीधर्मसृनुसित हारिभद्रग्रन्थेष्वतोऽभूत् । १४४० पुनर्भव विरहान्तता । गुणसेण-अग्गिसम्मा'इत्यादिगाथात्रयप्रतिबद्ध समरादित्यचरित्रं नव्यं शास्त्रं क्षमावल्लीबीजं कृतम् । २१०० शतक-पञ्चाशत्-पोडशक-अष्टक -पञ्चलिङ्गी-अनेकान्तजय-- पताका-न्यायावतारवृत्ति पञ्चवस्तुक-पञ्चसूत्रक-श्रावकप्रज्ञ-प्ति १० नौणायत्तकप्रभृतीनि हारिभद्राणि । अत्रान्तरे 'श्रीमाल'पुरे कोऽपि धनी श्रेष्ठी जैनश्चेतुर्मासके सपरिकरो देवतायतनं व्रजन् सिद्धाख्यं राजपुत्रं द्यूतकारं युवानं देयकनकपदे निर्दयै नकारैर्गर्तयां निक्षिप्तं कृपया तद्देयं दत्त्वाऽमचियत् । गृह मानीयाभोजयत् । अपाठयत् । सर्वकार्याध्यक्षमकरोत् । पर्यणाययत् । १५ माता,पागप्यासीत् । पृथग् गृहेऽस्थात् । मात्रा प्रियया च समं स गृहमण्डनिका । श्रेष्टिप्रसादाद् धनं बभूव । सिद्धो रात्रौ अतिकाले एति, लेख्यकलेखलखनपरवशत्वात् । श्वश्रू-स्नुषे अतिनिर्विण्णे, अतिजागरणात् । वध्वा श्वश्रूरुक्ता- मातः ! पुत्रं तथा बोधय यथा निशि सकाले एति । मात्रा उक्तः सः-- वत्स! निशि शीघ्रमेहि, यः कालज्ञः स सर्वज्ञः । सिद्धः प्राह-मातः ! येन स्वामिनाऽहं सर्वस्वदानेन जीवितव्यदानेन च समुद्धृतस्तदादेशं कथं न कुर्वे ? । तोष्णीक्येन स्थिता माता । अन्यदाऽऽलोचितं श्वश्रू-स्नुषाभ्याम्-- -- .....१ छाया- यथा ज्वलति स्वलनं लोके कुशास्त्रपवनाहतः कषायानिः । । तच्चोद्यं यजिनवचनामृतसिक्तोऽपि प्रज्वलति ॥ २ ग-धन्तेऽभूत् । ३ एतत्प्राप्तिर धुना दुर्लभा । ४ न ज्ञायते एतदुपलब्धिः । ५ क-श्वतुर्मासे'। ६ ग-पुस्तके 'गृहे' अस्यानन्तरं 'अस्थात् । मात्रा प्रियया च समं सः' एतदधिकं वर्तते । ७ ग-पुस्तके 'बभूव' एतदधिकमस्ति ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy