SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ प्रबन्धकोशैत्यपराष्ट्र्ये हृदये हारयामास, षण्मासान्ते स शाक्यराट् ॥ ४८ ॥ षण्मासान्तनिशायां स स्वं निशान्तमुपेयिवान् । तर्कपुस्तकमाकृष्य, कोशात् किश्चिदवाचयत् ॥ ४९ ॥ चिन्ताचक्रहते चित्ते, नाथस्तान् धर्तुमीश्वरः । । बौद्धः स चिन्तयामास, प्रातस्तेजोवधो मम ॥ ५० ॥ श्वेताम्बरस्फुलिङ्गस्य किञ्चिदन्यदहो महः ! | निर्वासयिष्यन्तेऽमी हा, बौद्धाः साम्राज्यशालिनः ।। ५१ ।। धन्यास्ते ये न पश्यन्ति, देशभङ्गं कुलक्षयम् । परहस्तगतां भार्या, मित्रं चापदि संस्थितम् ॥ ५२ ॥ इति दुःखौधसङ्घट्टाद्, विदद्वे तस्य हृत् क्षणात् । नृपाहानं समायातं, प्रातस्तस्य द्रुतं द्रुतम् ॥ ५३ ॥ मोद्घाटयन्ति तच्छिष्या, गृहद्वारं वराककाः । मैन्दो गुरुर्नाथ भूप-सभापेतेति भाषिणः ॥ ५४ ॥ तद् गत्वा तत्र तैरुक्तं, श्रुत्वा तन्मल्ल उल्लसन् । अवोच्च शिलादित्यं, मृतोऽसौ शाक्यराट् शुचा ॥ ५५ ॥ १५ स्वयं गत्वा शिलादित्य-स्तं तथास्थमलोकत | बौद्धान् प्रावासयद् `देशाद्, धिक् प्रतिष्ठाच्युतं नरम् ॥५६॥ मल्लवादिनमाचार्य, कृत्वा वागीश्वरं गुरुम् । विदेशेभ्यो जैनमुनीन्, सर्वानाहवन्नृपः ॥ ५७ ॥ 'शत्रुञ्जये' जिनाधीशं, भवपञ्जरभञ्जनम् । कृत्वा श्वेताम्बरायतं, यात्रां प्रावर्तयन्नृपः ॥ ५८ ॥ कालान्तरे तत्र पुरे, रङ्को नामाभवद् वणिक् । तस्य कार्पेटिको हट्टे, न्यासीचक्रे महारसम् ॥ ५९ ॥ रसेन तेन स्पृष्टस्य, लोहस्य तपनीयताम् । सष्ट्वा हट्टसदन - परावर्त चकार च ॥ ६० ॥ मन्धः થાકે १० २० २५ १ क ख - 'प्रत्योरिदं पथं नास्ति' । २ 'मादो' इति भाषायाम् । ३ क बघ'देशान्' । ४ सुर्वणताम् । ५ क ' स:' ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy