SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ३६ ५ चतुर्विंशतिप्रबन्धे [ ६ श्रीवृद्धवादि- सिद्धसेन T इति गाथा समाचर्यते । तदपयशः श्रुत्वा वृद्धवादी कृपया तं निस्तारयितुमेका कीभूय गच्छे वृषभेषु न्यस्य तंत्रागतः । द्वारे स्थितः सूरीणामग्रे कथापयति द्वाःस्थः, यथा - वादी एको ज्यायानायातोऽस्ति । मध्ये सूरिभिराहूतः पुर उपवेशितः । वस्त्राव गुण्ठितसर्वकायो वृद्धवादी वदति-- व्याख्याहि---- अणकुंडियफुल म तोडहिं मा रोवा मोडहिं । I मणकुसुमेहिं अचि निरंजणु हिँडइ कांइ वणेण वणु ॥ १ ॥ सिद्धसेनश्चिन्तयन्नपि न वेत्त्यर्थम् । ततो ध्यायति - किमेते मे गुरवो वृद्धवादिनो येषां भणितमहमपि व्याख्यातुं न शक्नोमि ? | १० पुनः पुनः पश्यता उपलक्षिता गुरवः । पादयोः प्रणम्य क्षामिता : ' पद्यार्थी पृष्टाः । तेऽथ व्याचक्षिरे, यथा- 'अणफुल्लियफुल्ल ' प्राकृतस्यानन्तत्वात् अप्राप्तफलानि पुष्पाणि मा त्रोटय । को भावः ? | योगः कल्पद्रुमः । कथम् ? यस्मिन् मूलं यमनियमाः, ध्यानं प्रकाण्डप्रोयं, स्कन्धश्रीः समता, कवित्ववक्तृत्व यशः प्रताप१५ मारणस्तम्भनोच्चाटनवशीकरणादिसामर्थ्यानि पुष्पाणि, केवलज्ञानं फलम् | अद्यापि योगकल्पद्रुमस्य पुष्पाण्युद्गतानि सन्ति, तत् केवलफलेन तु पुरः फलिष्यन्ति । तान्यप्राप्तफलान्येव किमिति घोटयसि ? | मा त्रोटय इति भावः । ' मा रोवा मोडहि ' इह "रोपाः पञ्च महाव्रतानि तानि मा मोटय । 'मणकुसुमेहिं ' मनः कुसुमै२० र्निरञ्जनं - जिनं पूजय । 'हिंडई वणेण वणु' वनाद् वनं किं हिण्डसे ? | राजसेवादीनि कृच्छ्राणि विरसफलानि कथं करोपीति J १ घ - 'क्षपया' । २ ग ० ' तत्र गतः । ३ छाया - अप्राप्तफलानि पुष्पाणि मा त्रोटय मा रोपान् मोटय । मनः कुसुमैरर्चय निरजनं हिण्ड से किम् वनाद् वनम् ? ॥ ५ क ख ग - हिंडइ वणेण ' । ४ ग..घ.. --'हुल्लिय०' । ७ क ख घ- ' क्षमिता: । १० ग 'शेप पश्च०' । ६ ख ग 'पक्ष्यो:' । ● ग घ - 'हुल्लिय० । ९ स्त्र. 'प्रायस्वन्धः श्रीः
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy