SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ प्रबन्धक शेत्यपराये पंत्तमवलंबियं तह, जो जंपर फुल्लए न मुसलमिह । तमहं निराकरिता, फुलइ मुसलं ति ठावेमि ॥ १ ॥ तथा— प्रबन्धः ] "मद्गोशृङ्गं शक्रयष्टिप्रमाणं शीतो वह्निर्नारुतो निष्प्रकम्पः । यस्मै यद् वा रोचते तन्न किञ्चिद् ५ वृद्धो वादी भाषते कः किमाह ॥ १॥ * अप्रतिमल्लो वादी सोऽभूत् । स्कन्दिलाचार्यैः स्वपदे निवेशितः । वृद्धवादी इति ख्यातं तन्नाम । स्कन्दिलाचार्याः समाधिमृत्युरथेन द्यामगमन् । मिता भूः पयाऽपां स च पतिरपां योजनशतं सदा पान्थः पूषा गगनपरिमाणं कलयति । 塩を इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः ५ एकदा वृद्धवादी 'भृगु 'पुरं गच्छन्नास्ते । इतश्चा' ऽवन्त्यां ' विक्रमादित्यो राजा | यस्य दानानि अष्टौ हाटककोटयत्रिनवतिर्मुक्ताफलानां तुला पञ्चाशन्मदगन्धलुब्धमधुपक्रोधोद्धुराः सिन्धुराः । लावण्योपचयप्रपश्चितदृशां पण्याङ्गनानां शतं 19 दण्डे 'पाण्ड्य'नृपेण दौकितमिदं वैतालिकस्याप्यताम् ॥ १ ॥ इत्यादीनि ख्यातानि । तस्य राज्ये मान्यः 'कात्यायन 'गोत्रावतंसो देवर्षिर्द्विजः । तत्पत्नी देवसिका । तयोः सिद्धसेनो नाम पुत्रः । स प्रज्ञाबलेन जगदपि तृणवद् गणयति । प्रज्ञायाश्च इयत्ता नास्ति । जगति ततः पठ्यते २० १० १५ सतां प्रज्ञोन्मेषः पुनरयमसीमा विजयते ॥ १ ॥ ' येन वादे जीये तस्याहं शिष्यः स्याम् इति प्रतिज्ञा तस्य । २५ १ छाया -- पत्रमवलम्बितं तथा यो जल्पति पुष्पेत् न मुशलमिह । तमहं निराकृत्य पुष्पति मुशलमिति स्थापयामि ॥ २ ग 'वाचेमि' । आर्या । ६ क - ख. ' स्मार्पितम्' । ७ शार्दूल० । ४ ख -- घ - - ' मद्गोः शृतं । ५ शामि . सूर्यः । ९ शिखरिणी ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy