SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः] प्रवन्धकोशेत्यपराजये ततः सङ्घन हक्कितः । क्रुद्घो गत्वा बौद्धानां मिलितः । तदाचार्य इव जातः । बौद्धानां पात्राणि मठात् खेन गृहमेधिनां गृहेषु नयति । ततो भक्तपूर्णानि तानि खेनैव मठमायान्ति । तथा दृष्ट्वा लोको बौद्धभक्तो भवन्नास्ते । यदुचितं तत् कुरुध्वम् । तदवधार्यायखपटदेवा 'भृगु'पुरमगुः । प्रच्छन्नाः स्थिताः । श्रौद्धानां पात्राणि अन्नपूर्णान्यागच्छन्ति । शिलाविकुर्वणेन खे अभक्षुः । पतन्ति पात्रेभ्यः शालि-मण्डक-मोद काद्यंशाश्च लोकस्य मस्तकेषु । 'चेल्लकः सूरीणां समागमनं सम्भाव्य भीतो नष्टो वराकः । सूरयः ससधा बौद्धानां प्रासादमगमन् । बुद्ध उपलमूर्तिः सम्मुख उत्थितः जय जय महर्षिकुलशेखर ! इत्यादि स्तुतीरतनिष्ट । पुनर्जिनपतिशासनस्य १० प्रभावः प्रोदिदीपे । आर्यखपटा अन्यत्र विजाहुः । इतश्च 'पाटलीपुत्र'पत्तने दाहडो नाम नृपो विप्रभक्तो जैनयतीनाह्वयत् , अबोचच्च-विप्रान् नमस्कुरुत, इति । जनरुक्तम् - राजन् ! नेदं युक्तम् , गृहिणोऽमी, ययं च यतयो वन्द्याः । दाहडेनोक्तम्----न बन्दचे चेच्छिरांसि वः कृन्तामि । जैन- १५ यतिभिः सप्तदिनी याचिता । राज्ञा दत्ता । दैवादायखेपटशिष्य उपाध्यायो महेन्द्रनामा 'भृगुकच्छा'त् तत्रायातः । तदने यतिभिः स्वदुःखं कथितम् । तेन सन्धीरितास्ते । प्रात: करवीरकम्बे द्वे रक्तश्वेते लात्वा महेन्द्र उपदाहडमगात् । तदाऽयमदिनप्रत्यूषं वर्तते । राज्ञोक्तम्-श्वेताम्बरा विप्राणामायाहूयन्ताम् । आहूताः, अग्रे २० उस्तिस्थुः । महेन्द्रेण रक्तां कम्बां वाहयित्वा राजा भाषितःकिं प्रथममितो नमाम: ? किंवा इतो नमाम इति । एतद्भणनसमकालमेव विप्राणां मस्तकास्त्रुटित्वा ताडफलवद् भूमौ पेतुः । तद् १ ग-क्रुद्ध्वा । २ घ-बौद्धानां भक्तो । ३ क-'खपुट०' | 'मांडा' इति भाषायाम् । ५ ख-घ-नेलकः'। ६ गं-'प्रदिदीपे'। ७ क-'खपुटा०। ८ क-- ख- पाटलीपुरे' । ६ क-'खपुट०। १० क-तालफल.' ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy