SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः ] प्रबन्धकोशेत्यपराये [ ३ ] ॥ अथ श्रीजीवदेवसूरिप्रबन्धः ॥ १३ ' गुर्जर' धरायां वायुदेवतास्थापितं 'वाय' नाम महास्थानम् । तत्र धर्मदेवनामा श्रेष्ठी धनवान् । तस्य शीलवती नाम गेहिनी गेहश्रौरिख देहिनी । तयोः सुतौ महीधर - महीपालौ । महीपालः क्रीडाप्रियो न कलाऽभ्यासं करोति । ततः पित्रा 'हक्कितो रुष्टो देशान्तरमसरत् | धर्मदेव श्रेष्ठी परलोकं प्राप्तः । महीधरोऽपि ५ श्रीजिनदत्तसूरीणां ' वायट' गच्छीयानां पादमूले प्रवत्राज । स राशिल्लसूरिर्नाम सूरीन्द्रो बभूव । महीपालोऽपि पूर्वस्यां दिशि ' राजगृहे ' पुरे दिगम्बराचार्यदीक्षां प्राप्याचार्यपदमवाप । सुवर्णकीर्तिः इति नाम पप्रथे । श्रुतकीर्तिना गुरुणा तस्मै द्वे विधे प्रदत्ते - ' चक्रेश्वरी' विद्या ' परकायप्रवेश' विद्या च । धर्मदेवे दिवं १० गते शीलवती दुःखिन्यासीत् यतः - यथा नदी बिमाऽम्भोदाद्, यामिनी शशिना विना । अम्भोमिनी बिना भानुं, भर्त्रा कुलवधूस्तथा ॥ १ ॥ * 'राजगृहा' गतपरिचित मनुष्यमुखेन स्वपुत्रं स्वर्णकीर्ति तत्रस्थं ज्ञात्या तन्मिलनाय गता । मिलितः स्वर्णकीर्तिस्तस्याः । उन्मी - १५ लितो मातापुत्रस्नेहः । एकदा तया सुवर्णकीर्तिर्भाषितः - तब पिता दिवमगमत् । स्वमत्र सूरिः । महीधरस्तु राशिल्लसूरिर्नाम श्वेताम्बरसूरिपदे वर्तते । ' वायट 'प्रदेशे विहरति । युवां द्वावेकमतीभूय एकं धर्ममाचरतम् । ' वायट ' मानीतस्तया सः । द्वौ बान्धवौ एकत्र मिलितौ । सुवर्णकीर्तिर्भाषितो मात्रा, वत्स ! स्वं २० श्वेताम्बर एधि । सुवर्णकीर्तिर्वदति - राशिल्लरिदिंगम्बराचार्यो भवतु मदनुसरणात् । एवं वर्तमाने मात्रा द्वे रसवत्यौ १ क ख 'स्थि' । ' हांकी कढायेलो ' इति भाषायाम् । - शशिनं । ४ अनुष्टुप् । ५ ग- 'सुवर्णकीर्तिः । ६ क ख ' मद्दीपालस्तु ' । >
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy