SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः ] एतयोश्च श्रीवस्तुपाल- तेजः पालयोर्धर्मस्थानसख्याँ कर्तुं क ईश्वरः ! | परं गुरुमुखश्रुतं किञ्चिल्लिख्यते लक्षमेकं सपादं जिन बिन विधापितम् । अष्टादश कोट्यः षण्णवतिर्लक्षाः श्री 'शत्रुञ्जय'तीर्थे विणं व्ययितम् । द्वादश कोट्योऽशीतिलक्षाः श्री 'उज्जयन्ते' । द्वादशकोप त्रिपञ्चाशल्लक्षा 'अर्बुद 'गिरिशिखरे 'लूणिग' वसल्याम् । नव शतानि चतुरशीतिश्च पौषधशालाः कारिताः । पञ्च शतानि दन्तमयसिंहासनानां कारापणम्, सूरीणां प्रत्येकमुपवेशनार्थमर्पणम् । पश्च शतानि पश्चोत्तराणि समवसरणानां जादरम्यानां कारणं श्री कल्पवाचनाक्षणे मण्डनार्थम् | ब्रह्मशालाः सप्त शतानि । सप्त शतानि सत्रागाराणाम् । सप्तशती तपखि कापालिकमठानाम् । सर्वेषां १० भोजननिर्वापादि दानं कृतम् । त्रिंशच्छतानि द्वयुत्तराणि महेश्वरायतनानाम् । त्रयोदश शतानि चतुरुत्तराणि शिखरबद्ध जैनप्रासादानाम् । त्रयोविंशतिः जीर्णचेत्योद्धाराणां, अष्टादशकोटिव्ययेन सरस्वतीभाण्डागाराणां त्रयाणां स्थानत्रये करणं 'धवलक' - ' स्तम्भतीर्थ' - 'पत्तना' दौ । पञ्चशती ब्राह्मणानां नित्यं वेदपाठं कारयति स्म । तेषां १५ गृहमानुषाणां निर्वाहकरणम् । वर्षमध्ये सङ्घपूजात्रितयम् । पञ्चदशशती श्रमणानां नित्यं गृहे विहरति स्म । तटिककापटिकानां सहस्रं समधिकं प्रत्यहममुक्त । त्रयोदश यात्राः सङ्घपतीभूय कारिता लोकानाम् । तत्र प्रथमयात्रायां चत्वारि सहस्त्राणि पश्च शतानि शकटानां सशय्यापालकानाम्, सप्तशती २० सुखासनानाम्, अष्टादशशती वाहिनीनाम् एकोनविंशतिशतानि श्रीकरीणाम्, एकविंशतिः शतानि श्वेताम्बराणाम्, एकादशती दिगम्बराणाम्, चत्वारि शतानि सार्धानि जैनगायनानाम्, त्रयत्रिंशच्छती बन्दिजनानाम्, चतुःसहस्रतुरगाः, द्विसहस्रोष्ट्राः चतु प्रवन्धकोशेत्यपराये ३५७ १ - व्ययकृतम्' । २ ख - 'मथाना' । ३ ग 'पश्चविंशतिशतानि हरिहरनसादि०४ - 'कुर्वन्ति स्म', घ- 'करोति स्म । ५ 'सर्वदर्शनिनां इमधिको ग पाठः । ६ ख - 'विरमति स्म ।७ ग -'मङ्कककटिया कार्प " । चतुर्विंशति ३३
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy